________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३९८॥
त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ।। २०१ ॥ महापद्मो दशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ २०२ ।।
॥युग्मम् ॥ नन्दिश्च नन्दिमित्रश्च तथा सुन्दरबाहुकः । महाबाहुरतिबलो महाबलबलावपि ।। २०३ ।। द्विपृष्ठश्च त्रिपृष्ठश्च नवाऽमी अर्धचक्रिणः । चटत्प्रकर्षा रामाश्च तत्र प्रथमतो बलः ।। २०४ ।। जयन्तोऽथाजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा संकर्षणोऽन्तिमः ॥२०५ ।। प्रत्यर्धचक्रिणश्चैते तिलको लोहजंघकः । वज्रजंघः केसरी च बलिः प्रह्लाद इत्यपि ।। २०६ ।। तथाऽपराजितो भीमः सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिः शलाकापुरुषा अमी ।। २०७ ॥ इत्युक्तवन्तं श्रीवीरं सुधर्मा गणभृद्वरः । पप्रच्छ केवलादित्यः किं कुत्रोच्छेदमेष्यति ? || २०८ ।। स्वाम्यथाऽऽख्यन्मम मोक्षाद्गते काले कियत्यपि । जंबूनाम्नस्तव शिष्यात् परं भावि न केवलम् ।। २०९ ।। उच्छिन्ने केवले भावी न मनःपर्ययोऽपि हि । पुलाकलब्धिश्च न चावधिश्च परमो न हि ।। २१० ॥ क्षपकोपशमश्रेण्यौ न च नाऽऽहारकं वपुः । जिनकल्पो न हि न हि संयमत्रितयं तथा ।। २११ ॥ शिष्यः सेत्स्यति ते जंबूः स चतुर्दशपूर्वभृत् । जंबूशिष्यः प्रभवश्व भविता सर्वपूर्वभृत् ॥२१२ ।। शय्यंभवस्तु तच्छिष्यो द्वादशांगी भविष्यति । दशवैकालिकग्रन्थं स्रक्ष्यत्युद्धृत्य स श्रुतात् ।। २१३ ॥ तस्य शिष्यो यशोभद्रो भविता सर्वपूर्वभृत् । संभूतभद्रबाहू च तच्छिष्यौ सर्वपूर्विणौ ।। २१४ ॥
भाविभावानां वर्णनम् ।
॥३९८॥