________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९७॥
| दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
अतः परं पूर्ववच्च भविष्यन्ति जिनेश्वराः । प्रातिलोम्येन पूर्वार्हत्समाः सर्वेऽप्यमी क्रमात् ।। १८८ ।। तत्र श्रेणिकराड्जीवः पद्मनाभो जिनेश्वरः । सुपार्श्वजीवो भगवान् शूरदेवो द्वितीयकः ।। १८९ ।। ततीयः पोट्टिलजीवः सुपावॉ जिनपुंगवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयंप्रभुः ।। १९० ।। कार्तिकस्य जीवः सर्वानुभूतिरिति पंचमः । जीवः शंखस्य षष्ठोऽर्हन् देवश्रुतोऽभिधानतः ।। १९१ ।। सप्त नन्दजीवस्तु जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः ।। १९२ ।। नवमः केकसीजीवो जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीवः शतकीर्तिर्जिनेश्वरः ॥ १९३ ।। अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शाङ्गिणः ।। १९४ ।। बलदेवस्य जीवोऽर्हन्निष्कषायस्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाकश्चतुर्दशः ।। १९५ ।। निर्ममः सुलसाजीवो जिनः पंचदशः पुनः । षोडशो रेवतीजीवश्चित्रगुप्तोऽभिधानतः ।। १९६ ॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवस्तु गार्गलेरष्टादशोऽर्हन संवराभिधः ।। १९७ ॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ।। १९८ ।। एकविंशो जिनो मल्लो यः पुरा नारदोऽभवत् । अंबडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ।। १९९ ।। त्रयोविंशोऽनन्तवीर्यो जीवो द्वारमदस्य तु । स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थकृत् ।। २०० ॥ १ रेवती।
भाविभावानां वर्णनम् ।
॥३९७॥