________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३९६॥
त्रयोदशः सर्ग: श्रीमहावीरजिनचरितम् ।
तृतीयो घृतमेघाख्यः स्नेहं संजनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति ।। १७५ ॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पंचमः । पंचत्रिंशद्दिनीं वृष्टिर्भाविनी सौम्यदुर्दिना ।। १७६ ।। द्रुमौषधिलतावल्लीहरितादि निरीक्ष्य च । बिलेभ्यो निःसरिष्यन्ति मुदिता बिलवासिनः ।। १७७ ॥ ते वक्ष्यन्ति भरतभूरभूत् पुष्पफलादिभृत् । भक्ष्यं नाऽतः परं मांसं त्याज्यो मांसादकश्च यः ।। १७८ ।। यथा यथैष्यति कालो वय॑ति हि तथा तथा । रूपसंहननायूंषि धान्यादीनि च भारते ।। १७९ ।। भविष्यन्ति सुखा वाता ऋतवः सलिलानि च । तिर्यञ्चश्च मनुष्याश्च गतरोगाः क्रमेण च ।। १८० ॥ दुःषमान्ते भविष्यन्ति मध्येप्राग्भरतावनि । कुलकराः सप्त तत्राऽऽदिमो विमलवाहनः ।। १८१ ॥ सुदामा संगमश्चापि सुपार्श्वश्च चतुर्थकः । दत्तश्च सुमुखश्चैव समुचिश्चेति ते क्रमात् ।। १८२ ॥ तत्र जातिस्मरः पूर्वो नाम्ना विमलवाहनः । निवेशयिष्यति ग्रामपुरादीन् राज्यहेतवे ।। १८३ ॥ संग्रहीष्यति गोगजाऽश्वाद्यथ व्यञ्जयिष्यति । शिल्पानि व्यवहारंच लिपीश्च गणितादि च ।। १८४ ।। उत्पन्ने दुग्धदध्यादौ सस्येषु ज्वलनेऽपि च । हितकामी स प्रजानां रन्धनाथुपदेक्ष्यति ।। १८५ ।। दुःषमायामतीतायां शतद्वारे महापुरे । भद्रानाम्न्यां महादेव्यां संमुचेः पृथिवीपतेः ।। १८६ ।। नन्दनः श्रेणिकजीवो भविष्यत्यादितीर्थकृत् । पद्मनाभाभिधस्तुल्यो जन्ममानादिना मम ।। १८७ ॥ १ काम । कारी।
भावि
भावानां वर्णनम् ।
॥३९६॥