________________
त्रिषष्टिशलाकापुरुषचरित ॥३९५।।
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
अंगारमर्मराभा भूर्भस्मरूपा भविष्यति । कदाचिद् धूलिबहला कदाचित्सान्द्रकर्दमा ।। १६१ ।। रलिमानपुरुषांगा दुर्वणा निष्ठुरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपिटनासिकाः ।। १६२ ।। निर्लज्जा वस्त्ररहिता भविष्यन्ति नराः स्त्रियः । आयुर्विंशतिरब्दानि नृणां स्त्रीणां तु षोडश ।। १६३ ॥ गर्भ वक्ष्यति षड्वर्षा स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्दा च भूयिष्ठसुतनप्तृका ।। १६४ ।। भाविनो बिलवासाश्च गिरौ वैताढ्यनामनि । द्वासप्ततिर्नधुभयतटभूषु बिलानि तु ॥ १६५ ॥ कूले कूले कूलिनीनां बिलानि नव तत्र च । तिर्यञ्चस्तु भविष्यन्ति बीजमात्रतयैव हि ।। १६६ ।। पललाहारनिरता नृशंसा निर्विवेककाः । तदानीं च भविष्यन्ति मनुष्याद्या अशेषतः ।। १६७ ।। तदा रथपथमात्रं गंगासिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्यकच्छपादिभिराचितम् ।। १६८ ।। तत्रैत्य निशि मत्स्यादीन् कृष्ट्वा मोक्ष्यन्ति च स्थले । दिवा सूर्यत्विषा पक्वान् खादिष्यन्ति निशाऽन्तरे ।। १६९ ॥ एवं सदाऽपि भोक्ष्यन्ते यद्दध्यादि तदा न हि । न पुष्पं न फलं नान्नं न च शय्याऽऽसनादिकम् ।। १७० ।। भरतैरवतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका ।। १७१ ।। अरौ याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिण्यां स्वकीयानुभावावाद्यद्वितीयकौ ।। १७२ ।। उत्सर्पिण्या दुःषमदुःषमान्तसमयेऽम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् ।। १७३ ।। तत्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति ।। १७४ ॥
भाविभावानां वर्णनम् ।
||३९५॥