SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका दशमं पर्व त्रयोदशः पुरुषचरिते सर्गः ॥३९४॥ श्रीमहावीरजिनचरितम् । रलिद्वयप्रमाणांगा विंशत्यब्दायुषश्च ते । तपो दुष्प्रसहादीनां चतुर्णा षष्ठमुत्कटम् ।। १४८ ।। दशवैकालिकभृधः स चतुर्दशपूर्ववित् । प्रबोधयिष्यति संघं तीर्थ दुष्प्रसहावधि ।। १४९ ।। ततोऽर्वाग्वय॑ति धर्मो धर्मो नास्तीति यः पुनः । वदिष्यति स संघेन कर्तव्यः संघतो बहिः ।।१५० ॥ द्वादशाब्दी गृहे नीत्वाऽष्टाब्दी दुष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन सौधर्म कल्पमेष्यति ।। १५१ ।। पूर्वाह्नेऽथ चरित्रस्य समुच्छेदो भविष्यति । मध्याह्ने राजधर्मस्यापराह्ने जातवेदसः ।। १५२ ।। इत्थं च दुःषमा वर्षसहस्राण्येकविंशतिः । एकान्तदुःषमाकालोऽप्येवंमानो भविष्यति ।। १५३ ।। धर्मतत्त्वे प्रणष्टेऽथ हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावर्जितो जनः ।। १५४ ।। परुषाः पांशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति भीषणाश्च दिवानिशम् ।। १५५ ।। इन्दुः स्रक्ष्यत्यतिशीतं तप्स्यत्यत्युष्णमर्यमा । अतिशीतोष्णाभिहतो लोकः क्लेशमवाप्स्यति ।। १५६ ।। तदा च विरसा मेघाः क्षारमेघाम्लमेघकाः । विषाग्न्यशनिमेघाश्च वर्षिष्यन्त्यात्मसन्निभम् ।। १५७ ॥ येन भावी कासः श्वासः शूलं कुष्ठंजलोदरम् ।ज्वरः शिरोऽर्तिरन्येऽपि मनुष्याणां महाऽऽमयाः ।।१५८ ।। दुःखं स्थास्यन्ति तिर्यञ्चो जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः ।। १५९ ।। वैताठ्यऋषभकूटगंगासिन्धूर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्ताऽऽपगादिकम् ।। १६० ॥ १मुत्कटः । भाविभावानां वर्णनम् । ॥३९४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy