________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९३॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
चौर्याच्चौराः पीडयिष्यंत्युर्वी भूपाः करेण तु । श्रेण्यो भूतग्रहप्राया लंचालुब्धा नियोगिनः ।। १३५ ।। भावी विरोधः स्वजने जनः स्वार्थकतत्परः । परार्थविमुखः सत्यलज्जादाक्षिण्यवर्जितः ।।१३६ ।। गुरुन्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथंचन ।। १३७ ।। एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धी विनी धर्मे बहुसत्त्वाऽऽकुला च भूः ।। १३८ ।। न साक्षाद्भाविनो देवा विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषाः श्वश्वः कालरात्रिसमाः पुनः ।। १३९ ।। दृग्विकारैः स्मितैर्जल्पैर्विलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्रियः ।। १४० ।। श्रावकश्राविकाहानिश्चतुर्धा धर्मसंक्षयः । साधूनामथ साध्वीनां पर्वण्यप्यनिमंत्रणम् ।। १४१ ।। कूटतुला कूटमानं शाठ्यं धर्मेऽपि भावि च । सन्तो दुःस्थीभविष्यन्ति सुस्थाः स्थास्यन्ति दुर्जनाः ।। १४२ ॥ मणिमंत्रौषधीतंत्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥१४३ ।। धर्माणां शुभभावनां चान्येषां पंचमे हरे । हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं खलु ।। १४४ ।। क्रमादेवं क्षीयमाणपुण्ये काले प्रसर्पति । धर्मे धी विनी यस्य सफलं तस्य जीवितम् ।। १४५ ।। आचार्यो दुःप्रसहाख्यः फल्गुश्रीरिति साध्व्यपि । श्रावको नायलो नाम सत्यश्री श्राविका पुनः ।। १४६ ॥ विमलवाहन इति रामंत्री सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ।। १४७ ॥ १ विरोधी । २ नायिलो । नागिलो ।
भाविभावानां वर्णनम् ।
॥३९३॥