________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९२॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
अनुशिष्याऽऽर्हतं धर्म दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा संघं शक्रो गमिष्यति ।। १२१ ।। पितुः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमहच्चैत्यविभूषिताम् ।। १२२ ।। पंचमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य भविष्यति निरन्तरा ।। १२३ ॥ इदं हि भरतक्षेत्रं ग्रामाकरपुराऽऽकुलम् । धनधान्याऽऽचितमहत्कालेऽभूत्स्वर्गसन्निभम् ।। १२४ ॥ ग्रामा नगरवत्स्वर्गसमानि नगराणि च । कुटुंबिनो नृपसमा नृपा वैश्रवणोपमाः ।। १२५ ॥ आचार्याश्चन्द्रमस्तुल्याः पितरो देवतासमाः । श्वश्वश्च जननीतुल्याः श्वसुराः पितृसन्निभाः ।। १२६ ।। सत्यशौचपरो धर्माऽधर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसंतुष्टश्च तदा जनः ।। १२७ ।। अर्घति स्म च विज्ञानं विद्या शीलं कुलं तथा । परचक्रेतिदस्युभ्योऽभून्न भीन करो नवः ।। १२८ ।। अर्हद्भक्ताश्च राजानोऽवगीताश्च कुतीर्थिकाः । बभूवुरुपसर्गादीन्याश्चर्याणि दशापि च ।। १२९ ॥ अतः परं दुःषमायां कषायैर्लुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥ १३० ।।
यथा यथा यास्यति च कालो लोकस्तथा तथा । कुतीर्थिमोहितमतिर्भाव्यहिंसादिवर्जितः ।। १३१ ॥ ॐ ग्रामाः श्मशानवत्प्रेतलोकवन्नगराणि च । कुम्टुबिनश्चेटसमा यमदंडसमा नृपाः ।। १३२ ॥
लुब्धा नृपतयो भृत्यान् ग्रहीष्यन्ति धनं निजान् । तभृत्याश्च जनमिति मात्स्यो न्यायः प्रवर्त्यति ॥१३३ ।। येऽन्त्यास्ते भाविनो मध्ये ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते नावोऽसितपटा इव ॥१३४ ।।
भाविभावानां वर्णनम् ।
||३९२||