________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९१॥
दशमं पर्व त्रयोदशः सनः श्रीमहावीरजिनचरितम् ।
भविष्यन्त्यायतनानि विहरिष्यन्ति साधवः । वर्षिष्यति च कालेऽब्दः सस्यनिष्पत्तिकारणम् ।। १०७ ॥ द्रम्मेण कुंभलाभेऽपि सस्यं न क्रेष्यते जनः । पंचाशदब्दीमेवं च सुभिक्षं भावि कल्किनि ॥ १०८ ॥ आसन्नमृत्युभूयोऽपि कल्की पाखंडिनोऽखिलान् । त्याजयिष्यति लिंगानि व्युपद्रोष्यति चोच्चकैः ।। १०९ ।। ससंघं च प्रातिपदं न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः षष्ठं भागं दुराशयः ॥ ११०॥ संघः शक्राऽऽराधनाय कायोत्सर्ग करिष्यति । शासनदेव्यो वक्ष्यन्ति कल्किन् ! क्षेमाय न ह्यदः ॥१११ ॥ संघस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा शक्रस्तत्राऽऽगमिष्यति ॥ ११२ ॥ महासिंहासनासीनं कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति किं न्वेते निरुद्धाः साधवस्त्वया ? ||११३ ॥ कल्की भाषिष्यते शक्र मत्पुरे निवसन्त्यमी । न मे करंतु यच्छन्ति भिक्षाषष्ठांशमप्यहो । ११४ ॥ पाखंडाः करदाः सर्वे ममाभूवन्नमी तु न । दुर्गवीव बलाद्दोग्धुं निरुद्धास्तेन वाटके ।। ११५ ॥ तं जल्पिष्यति शक्रोऽपि नैतेषामस्ति किंचन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाऽप्यमी ॥ ११६ ॥ भिक्षुभ्यो याचमानस्त्वं भिक्षांशं लज्जसे न किम् । तन्मुंचामूनन्यथा ते भाव्यनर्थो महान् खलु ।। ११७ ।। कुप्यन्निति गिरा कल्की वदिष्यत्यररे भटाः ! । कंठे धृत्वा द्विजममुमपसारयत द्रुतम् ।। ११८ ।। इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो भस्मराशीकरिष्यति ।। ११९ ॥ षडशीतिं वत्सराणामायुः संपूर्य कल्किराट् । नारको नरकावन्यां दुरन्तायां भविष्यति ।। १२० ।।
RASHARASIRSARSASSA
भाविभावानां वर्णनम् ।
| ॥३९१॥