________________
त्रिषष्टिशलाकापुरुषचरिते ॥३९०॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
कालात्कर्मवशाद् भावि शुभं वा यदि वाऽशुभम् । कस्तन्निषेधितुमलंभूष्णुर्जिष्णुरपि स्वयम् ।। ९३ ।। ततः पाखंडिनः सर्वान् कल्की याचिष्यते करम् । तं च तस्मै प्रदास्यन्ति ते सारंभपरिग्रहाः ।। ९४ ।। अन्यैः पाखंडिभिर्दत्तः करो यूयं न दत्थ किम् ? । इति ब्रुवाणो लुब्धात्मा स साधूनपि रोत्स्यते ।। ९५ ॥ साधवस्तं वदिष्यन्ति राजन् ! वयमकिंचनाः । भिक्षाभुजो धर्मलाभं विना किं दद्महे तव ? ।। ९६ ॥ पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षस्तत्पुण्यषष्ठांशभाग्भवेदवनीपतिः ।। ९७ ॥ अस्माद् दुष्कर्मणस्तस्माद्विरमावनिशासन । व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा ।। ९८ ॥ एवं मुनिवचः श्रुत्वा कल्की कोपिष्यति द्रुतम् । उभृकुटिः करालास्यः कृतान्त इव भीषणः ।। ९९ ॥ किमरे! मर्तुकामोऽसि माधम ! मुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ।। १०० ।। देवतावचसा तेन सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून क्षमयिष्यति ।। १०१ ॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयंकराः । अन्वहं कल्किराजस्य नगरक्षयसूचकाः ।। १०२ ।। अहोरात्रान् सप्तदश वर्षिष्यत्यथ वारिदः । गंगाप्रवाहश्चोधृत्य तत्पुरं प्लावयिष्यति ।। १०३ ।। तत्राऽऽचार्यः प्रातिपदः कोऽपि संघजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥१०४ ।। गंगाप्रवाहपयसा परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो बहवः पुरवासिनः ।।१०५ ॥ जलोपसर्गे विरते नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि करिष्यति नवं पुरम् ॥ १०६ ॥
भावि
भावानां वर्णनम् ।
॥३९०॥