________________
त्रिषष्टिशलाका
पुरुषचरिते ॥ ३८९ ॥
तदा च मथुरापुर्यामकस्माद्रामकृष्णयोः । निपतिष्यत्यायतनं वाताहतजरद्रुवत् ॥ ८० ॥ क्रोधमानमायालोभाः सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति तस्मिन् क्रूरतराशये ॥ ८१ ॥ चौरा राजविरोधो राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च भविष्यन्ति तदा खलु ॥ ८२ ॥ कुमारोऽष्टादशाब्दानि तावन्त्येव च डामरी । ततः परं प्रचंडात्मा राजा कल्की भविष्यति ॥ ८३ ॥ नगरे पर्यटंस्तत्र पंच स्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् केनैते कारिता इति ॥ ८४ ॥ कथयिष्यन्ति तेऽप्येवं पुराऽऽसीद्विश्वविश्रुतः । नन्दो नाम क्षितिपतिर्धनैर्धनदसन्निभः ।। ८५ ॥ हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नाऽऽदातुं तत्क्षमः कोपि बभूव पृथिवीपतिः ।। ८६ ।। कल्किराजस्तदाकर्ण्य भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् हिरण्यं च ग्रहीष्यति ॥ ८७ ॥ सर्वतोऽपि पुरं तच्च सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद्गणयिष्यति ॥ ८८ ॥ कल्किना खान्यमानायास्तदा च स्वपुरावनेः । नाम्ना लवणदेवी गौरुत्थास्यति शिलामयी ।। ८९ ॥ चतुष्पथेऽवस्थिता सा भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृंगाग्रभागेणाघट्टयिष्यति ।। ९० ।। स्थविराश्च वदिष्यन्ति भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं तत् क्वापि व्रजतान्यतः ।। ९१ ।। श्रुत्वात्कोsपि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु ।। ९२ ।।
१ तत्कति ।
दशमं पर्व त्रयोदशः सर्गः
श्रीमहावीरजिनचरितम् |
भाविभावानां वर्णनम् ।
।।३८९ ॥