________________
त्रिषष्टिशलाकापुरुषचरिते ॥३८८॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमंत्रिणौ ।।६७ ।। मंत्री ज्ञात्वेति तन्मत्रं नृपायाख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ।। ६८ ॥ मंत्र्यूचे ग्रहिलीभूय स्थातव्यं ग्रहिलैः सह । त्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ।। ६९ ।। कृत्रिमं ग्रहिलीभूय ततस्तौ राजमंत्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसंपदम् ।। ७० ।। ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ।। ७१ ।। एवं च दुःषमाकाले गीतार्था लिंगिभिः सह । सदृशीभूय वत्स्यति भाविस्वसमयेच्छवः ॥७२ ।। इति श्रुत्वा स्वप्नफलं पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत्तत्र क्रमान्मोक्षमियाय च ।। ७३ ।। भगवन्तं प्रणम्याथ गणभृगौतमोऽभ्यधात् । तृतीयारकपर्यन्ते भगवानृषभोऽभवत् ।। ७४ ।। त्रयोविंशतिरहन्तस्तुरीयारेऽजितादयः । अभवन्नवसर्पिण्यां यावधूयं जगद्गुरो ! ।। ७५ ।। अतः परं पंचमारे दुःषमानामनि प्रभो! । यद्भविष्यति तच्छंस प्रसीद परमेश्वर! ॥७६ ॥ स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैलिभिः । सार्धाष्टमाससहितैः पंचारः प्रवेक्ष्यति ।। ७७ ।। मन्निर्वाणाद्गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने ।।७८ ॥ विष्टौ भावी नृपः कल्की स रुद्रोऽथ चतुर्मुखः । नामत्रयेण विख्यातः पाटलीपुत्रपत्तने ॥७९ ।। १ सुस्था । २ • मोऽरः ।
पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च ।
॥३८८॥