________________
दशमं पर्व त्रयोदशः
त्रिषष्टिशलाकापुरुषचरिते ॥३८७॥
सर्गः
श्रीमहावीरजिन| चरितम् ।
अकल्पान्तर्गतं कल्पमज्ञानाः श्रावकास्तथा । पात्रे दानं करिष्यन्ति बीजस्वप्नफलं ह्यदः ।। ५३ ।। क्षमादिगुणपद्मांकाः सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः ।। ५४ ॥ श्लथाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिंगिनः पुनः ।। ५५ ॥ समत्सराः करिष्यन्ति कलहं ते महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥ ५६ ॥ गीतार्था लिगिनश्च स्युः साम्येन व्यवहारिणः । जनेन ग्रहिलेनेवाग्रहिलग्रहिलो नृपः ।। ५७॥ तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ।। ५८ ।। कालं तेनागमिष्यन्तं पृष्टोऽन्येधुः सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् ।। ५९ ।। मासादनन्तरं मेघो वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ।। ६० ।। कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पयःपानतो जनाः ।।६१ ।। राज्ञे मंत्री तदाचख्यौ राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसंग्रहार्थमथाऽऽदिशत् ।। ६२ ।। सर्वोऽपि हि तथा चक्रे ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ।। ६३ ।। अक्षीणसंग्रहाम्भस्कौ राजामात्यौ तु तौ विना । नवाम्बु लोकाः सामान्तप्रमुखाश्च पपुस्ततः ।। ६४ ।। तत्पानाद् ग्रहिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र विना तौ राजमंत्रिणौ ॥ ६५ ॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मंत्रयाञ्चक्रिरे नूनं ग्रहिलौ राजमंत्रिणौ ॥६६॥
पुण्यपालमण्डलेशस्य अष्यै स्वप्नाः तेषां फलं च ।
॥३८७॥