________________
दशमं पर्व त्रयोदशः
त्रिषष्टिशलाकापुरुषचरिते ||३८६॥
सर्गः
श्रीमहावीरजिनचरितम् ।
क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते लिंगिभिर्वचनापरैः ।। ३९ ।। तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवासारमतिस्पशाम् ।। ४० ॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिंगिनो बब्बूलसमाः क्षीरद्रुफलमीदृशम् ।। ४१ ।। धृष्टस्वभावा मुनयः प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु दीर्घिकांभःस्विव द्विकाः ।। ४२ ।। ततोऽन्यगच्छिकैः सूरिप्रमुखैर्वंचनापरैः । मृगतृष्णानिभैः सार्धं चलिष्यन्ति जडाशयाः ।। ४३ ।। न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः ।। ४४ ।। सिंहतुल्यं जिनमतं जातिस्मृत्याद्यनूज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ।। ४५ ।। न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्नाः कृमिवत्किं तु लिंगिनोऽशुद्धबुद्धयः ।। ४६ ।। लिंगिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः ।। ४७ ।। अब्जाकरेष्वंबुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ।। ४८ ।। अपि धर्मपरा भूत्वा भविष्यन्ति कुसंगतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ॥ ४९ ।। कुदेशे कुकुले जाता धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ॥ ५० ॥ यथा फलायाबीजानि बीजबुद्ध्योखरे वपेत् । तथा वस्यन्त्यकल्पानि कुपात्रे कल्पबुद्धितः ॥५१॥ यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः ।। ५२ ।।
पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च ।
॥३८६॥