________________
दशमं पर्व
त्रयोदशः
त्रिषष्टिशलाकापुरुषचरिते ॥३८५॥
सर्गः
श्रीमहावीरजिनचरितम् ।
पुमर्था इह चत्वारः कामार्थो तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनाँ परमार्थतः ॥ २५ ।। अर्थस्तु मोक्ष एवैको धर्मस्तस्य च कारणम् । संयमादिर्दशविधः संसाराम्भोधितारणः ॥ २६ ॥ अनन्तदुःखः संसारो मोक्षोऽनन्तसुखः पुनः । तयोस्त्यागपरिप्राप्तिहेतुर्धर्म विना न हि ।। २७ ।। मार्ग श्रितो यथा दूरं क्रमात् पंगुरपि व्रजेत् । धर्मस्थो घनकर्माऽपि तथा मोक्षमवाप्नुयात् ।। २८ ।। एवं च देशनां कृत्वा विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः प्रभुं नत्वा व्यजिज्ञपत् ।। २९ ।। स्वामिन् स्वप्ना मयाऽद्याष्टौ दृष्टास्तत्र गजः कपिः । क्षीरद्रुः काकसिंहाब्जबीजकुंभा इमे क्रमात् ।। ३०॥ तदाख्याहि फलं तेषां भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगन्नाथो व्याचकारेति तत्फलम् ॥३१ ॥ विवेकतौंग्याद् भूत्वाऽपि हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे ।। ३२ ॥ न दौस्थ्ये परचक्रे वा प्रव्रजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां त्यक्ष्यन्ति च कुसंगतः ।। ३३ ॥ विरलाः पालयिष्यन्ति कुसंगेऽपि व्रतं खलु । इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः ।। ३४ ।। प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ॥३५॥ ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि । भाविनो विरला एव धर्मोद्योगपराः पुनः ।। ३६ ॥ धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते ग्राम्यैामस्थपौरवत् ।। ३७ ।। इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ! ।।३८ ।।
पुण्यपालमण्डलेशस्य अष्टौ स्वप्नाः तेषां फलं च ।
॥३८५॥