________________
त्रिषष्टिशलाकापुरुषचरिते ॥३८४॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि संमतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ।। ११ ॥ सृष्टिवादकुहेवाकमुन्मुच्येत्यप्रमाणकम् । त्वच्छासने रमन्ते ते येषां नाथ प्रसीदसि ।। १२ ।। इति स्तुत्वा सुनासीरे स्थितेऽपापापुरीपतिः । हस्तिपालनपोऽप्येवं वीरस्वामिनमस्तवीत् ।। १३ ।। न परं नाम मृद्वेव कठोरमपि किंचन । विशेषज्ञाय विज्ञप्यं स्वामिने स्वान्तशुद्धये ।। १४ ।। न पक्षिपशुसिंहादिवाहनाऽऽसीनविग्रहः । न नेत्रवक्त्रगात्रादिविकारविकृताकृतिः ।। १५ ॥ न शूलचापचक्रादिशस्रांककरपल्लवः । नांगनाकमनीयांगपरिष्वंगपरायणः ।। १६ ॥ न गर्हणीयचरितप्रकंपितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः ।। १७ ।। न जगज्जननस्थेमविनाशविहितादरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ।। १८ ।। तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यःकथं नाम परीक्षकैः ? || १९ ।। अनुश्रोतःसरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःश्रयद्वस्तु कया युक्त्या प्रतीयताम् ।। २० ।। अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥२१ ।। यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ।। २२ ।। क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथंचन ।। २३ ॥ एवं स्तुत्वा हस्तिपाले विरतेऽर्हन्नपश्चिमः । अपश्चिमामित्यकरोद्भगवान् धर्मदेशनाम् ॥ २४ ॥
भगवतः अन्तिमा देशना।
||३८४||