________________
त्रिषष्टिशलाकापुरुषचरिते
४०३।।
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
निर्वाणमहमेवं ते कृत्वा भर्तुः सुरा ययुः । नन्दीश्वरे विदधुश्चाष्टाह्निकां शाश्वतार्हताम् ।। २७० ।। गत्वा स्वः स्वविमानान्तर्माणवस्तंभमूर्धसु । वृत्तवज्रसमुद्गेषु स्वामिदंष्ट्रा न्यधुः सुराः ।। २७१ ।।। गार्हस्थ्ये त्रिंशदब्दी द्विचत्वारिंशत्समा व्रते । इति द्वासप्ततिर्वर्षाण्यायुर्वीरप्रभोरभूत् ।। २७२ ।। श्रीपार्श्वनाथनिर्वाणात् सार्धे वर्षशतद्वये । गते श्रीवीरनाथस्य निर्वाणं समजायत ।। २७३ ॥ इतश्च देवशर्माणं बोधयित्वा निवृत्तवान् । शुश्राव गौतमः स्वामिनिर्वाणं सुरवार्तया ।। २७४ ।। गौतमस्वाम्यथोत्ताम्यश्चिन्तयामास चेतसि । एकस्याह्नः कृते भ; किमहं प्रेषितोऽस्मि हा! ।।२७५ ।। जगन्नाथमियत्कालं सेवित्वाऽन्ते न दृष्टवान् । अधन्यः सर्वथाऽस्म्येष धन्यास्ते तत्र ये स्थिताः ।। २७६ ।। गौतम ! त्वं वज्रमयो वज्रादप्यधिकोऽसि वा । श्रुत्वाऽपि स्वामिनिर्वाणं शतधा यन्न दीर्यसे ।। २७७ ॥ यद्वाऽऽदितोऽपि भ्रान्तोऽहं यद्रागं रागवर्जिते । ममत्वं निर्ममे चास्मिन् कृतवानीदृशे प्रभौ ।। २७८ ॥ रागद्वेषप्रभृतयः किं चामी भवहेतवः । हेतुना तेन च त्यक्तास्तेनापि परमेष्ठिना ।। २७९ ॥ ईदृशे निर्ममे नाथे ममत्वेन ममाऽप्यलम् । ममत्वं सममत्वेऽपि मुनीनां न हि युज्यते ॥ २८० ।। एवं शुक्लध्यानपरः क्षपकश्रेणिभाक् क्षणात् । घातिकर्मक्षयात्प्राप केवलं गौतमो मुनिः ।।२८१ ।। तत्र द्वादशवत्सरी क्षितितले भव्यान प्रबोध्योच्चकैः, स्वामीवामलकेवलर्द्धिरमरैरभ्यर्चितो गौतमः । १ महिमानं ।
गौतमस्य
विलापः
केवलं च।
।।४०३॥