________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३८॥
दशमं पर्व एकादशः सर्गः श्रीमहावीर| जिन
चरितम् ।
इभ्योऽप्याहूय तं विप्रमूचे किं याचसे ननु । स ययाचे बटोरस्य प्रत्यहं देहि भोजनम् ।। ४८७ ॥ इभ्योऽपि प्रतिपेदे तद् भुक्त्वा भुक्त्वाऽथ तद्गृहे । उपेन्द्रदत्तं कपिलोऽधिजगे प्रतिवासरम् ।। ४८८ ।। शालिभद्रगृहे भोक्तुं कपिलस्य गतस्य तु । सर्वदा युवदास्येका विशिष्टं पर्यवेषयत् । ४८९ ॥ युवा च हासशीलश्च स तस्यामन्वरज्यत । स्रीसन्निधानं यूनां हि मन्मथद्रुमदोहदम् ।। ४९० ॥ साऽपि तस्मिन्नभूद्रक्ता रेमाते च क्रमेण तौ । दास्यप्यन्यमनिच्छन्ती रहस्यूचे तमन्यदा ॥ ४९१ ।। त्वमेव प्राणनाथो मे किं तु निःस्वोऽस्यतो नरम् । प्राणयात्रार्थमपरं भजे सोऽप्यन्वमन्यत ॥ ४९२ ।। अन्येधुश्च पुरे तस्मिन् दासीनामुत्सवोऽभवत् । सापि दास्याप निर्वेदं पुष्पपत्रादिचिन्तया ।। ४९३ ॥ तां निर्वेदवतीं दृष्ट्वा कपिलः स्माह सुन्दरि! । किं श्यसे विवर्णास्या हिमालीढेव पद्मिनी ॥ ४९४ ।। साऽख्यन्महोऽद्य दासीनां पुष्पपत्रादि नास्ति मे । विगोपिष्यामि मध्ये च दासीनां का गतिर्मम ।। ४९५ ॥ तदुःखव्यन्तरावेशविवशः कपिलोऽपि हि । अधृत्या मौनमालम्ब्य तस्थौ दास्यप्यदोऽवदत् ।। ४९६ ॥ मा विषीद धनोऽत्रास्ति श्रेष्ठी तं च निशात्यये । प्रबोधयति यस्तस्मै स्वर्णमाषौ ददाति सः ।। ४९७ ।। गच्छेस्त्वमविभातायां विभावाँ तदोकसि । कल्याणिनेय ! कल्याणं पठेरकठिनोक्तिभिः ।। ४९८ ।। तथेति प्रतिपेदानं कपिलं प्रजिघाय सा । तस्यामेव तमस्विन्यां निशीथे धनसद्मनि ॥४९९ ॥ १°कत्वा तु ।
उदायननृपतिचरित्रम् ।
||३३८॥