SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३३७॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । त्वत्पितुः श्री नेनाऽऽप्ताऽनुपार्जितगुणे त्वयि । पितुः श्रियो न रक्ष्यन्ते तनयैरपि निर्गुणैः ।। ४७४ ।। जजल्प कपिलो मातस्तदधीये गुणार्थ्यहम् । साऽवदन्मत्सरी सर्वोऽप्यत्र कोऽध्यापयिष्यति ? || ४७५ ॥ यद्येवमपि ते बुद्धिः श्रावस्तीं व्रज तत्पुरीम् । तत्रास्ति त्वत्पितुर्मित्रमिन्द्रदत्त इति द्विजः ।। ४७६ ।। विद्यार्थिनं पुत्रमिव त्वमायातं स सर्ववित् । प्रीतः पितृसमं वत्स ! कलापूर्ण करिष्यति ।। ४७७ ।। गत्वेन्द्रदत्तं कपिलो नत्वा च स्वमजिज्ञपत् । उवाच चाध्यापय मां तातान्यः शरणं न मे ।। ४७८ ॥ उपाध्यायोऽप्यभिदधे भ्रातुष्पुत्रोऽसि मे खलु । विद्यामनोरथेनैवं न पिता हेपितस्त्वया ।। ४७९ ।। वच्मि किं त्वहमातिथ्येऽप्यशक्ते निष्परिग्रहः । अध्यस्मच्चागतस्येह क्व नु ते नित्यभोजनम् ।। ४८० ।। अभोजनस्य च व्यर्थ एव पाठमनोरथः । विना हि भोजनं वत्स मुरजोऽपि न गुंजति ।। ४८१ ।। कपिलोऽप्यलपत्तात! भोजनं भावि भिक्षया । भिक्षां देहीति सिद्ध हि मौजीबन्धाद् द्विजन्मनाम् ।। ४८२ ।। हस्त्यारूढोऽप्यग्रजन्मा भिक्षमाणो न लज्जते । भिक्षाचरश्च राजेव नाधीनः कस्यचित् क्वचित् ।। ४८३ ॥ इन्द्रदत्तोऽवदद्वत्स ! भिक्षा श्रेष्ठा तपस्यताम् । तवैकदाऽप्यलब्धायां तस्यामध्ययनं कुतः ? ।। ४८४ ।। इत्युक्त्वा स द्विजो बालं तमालम्ब्य स्वबाहुना । शालिभद्रमहेभ्यस्य सद्यः सदनमासदत् ।। ४८५ ।। ॐभूर्भुवःस्वरित्यादि गायत्रीमुच्चकैः पठन् । अजिज्ञपद् द्विजन्मानमात्मानं स बहिःस्थितः ॥ ४८६ ।। १ नैव । उदायननृपतिचरित्रम् । ॥३३७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy