________________
त्रिषष्टिशलाका
पुरुषचरि ॥३३९ ॥
आरक्षैः स व्रजन् वेगात् पुरवर्त्मन्यसंचरे । धृत्वा चोरधियाऽबन्धि चोरचर्या हि ताध्शी ॥ ५०० ॥ स प्रसेनजितो राज्ञः पुरः प्रातरनीयत । पृष्टश्च कथयामास स्वर्णमाषकथां तथा ।। ५०१ । राजाऽपि तत्तथा श्रुत्वा कृपावारितरंगितः । तं स्माह हं हो याचस्व यच्छाम्येव यदिच्छसि ।। ५०२ ।। विमृश्य मार्गयिष्यामीत्युक्त्वाऽशोकवनान्तरे । गत्वा योगीवैकमना भूत्वा चाचिन्तयद् द्विजः ॥ ५०३ ॥ द्विमाष्या स्यान्न वस्त्रादि तत्सुवर्णशतं नृपात् । याचे याचितलाभे हि याचना किं तनीयसी ।। ५०४ ।। न स्यात्स्वर्णशतेनापि प्रक्रिया वाहनादिका । याचे स्वर्णसहस्रं तदिष्टार्थप्राप्तिवेतनम् ।। ५०५ ॥ सहस्रेणापि मेऽपत्यविवाहाद्युत्सवः कुतः । इति लक्षमहं याचे याचनाचतुरोऽस्मि हि ।। ५०६ ।। लक्षेणापि सुहृबन्धुदीनाद्युद्धरणं कुतः । कोटिं कोटिशतं कोटिसहस्रं वा तदर्थये ।। ५०७ । एवं चिन्तयतस्तस्य शुभकर्मोदयादभूत् । इति धीः सुपरीणामा धीर्हि कर्मानुसारिणी ॥ ५०८ ।। अपि माषद्वयप्राप्तौ यः संतोषोऽभवन्मम । सोऽद्य कोटेरपि प्राप्तौ मां तद्भीत इवामुचत् ।। ५०९ ॥ विद्यार्थमागतस्येह मम दुर्व्यसनं ह्यदः । सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥ ५१० ॥ ज्ञानदानं मयि गुरोः स्थले कमलरोपणम् । यद्दास्यामपि दासत्वमकार्षमकुलोचितम् ।। ५११ ।। तदलं विषयैरेभिरिति संवेगमाप्तवान् । उत्पन्नजातिस्मरणः स्वयबुद्धो बभूव सः ।। ५१२ ।। १ 'वसरोऽस्ति हि ।
दशमं पर्व एकादश: सर्गः
श्रीमहावीर -
जिनचरितम् ।
उदायन
नृपतिचरित्रम् |
||३३९॥