________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३३२ ॥
तत्त्वौघानुगतश्रव्य व्यक्तव्यंजनधातुकम् । व्यक्तस्वरं व्यक्तरागं राजा वीणामवादयत् ।। ४०६ ।। व्यक्तांगहारकरणं सर्वांगाभिनयोज्ज्वलम् । ननर्त देव्यपि प्रीता लास्यं तांडवपूर्वकम् ॥ ४०७ ।। राजाऽन्यदा प्रभावत्या न ददर्श शिरः क्षणात् । नृत्यन्तं तत्कबन्धं तु ददर्शाजिकबन्धवत् ॥ ४०८ ॥ अरिष्टदर्शनेन द्राक् क्षुभितस्य महीपतेः । तदोपसर्पन्निद्रस्येवागलत् कम्बिका करात् ।। ४०९ । अकांडतांडवच्छेदकुपिता राज्ञ्यथावदत् । तालच्युताऽस्मि किमहं वादनाद्विरतोऽसि यत् ।। ४१० ।। इत्थं पुनः पुनः पृष्टः कम्बिकापातकारणम् । तत्तथाऽऽख्यन्महीपालो बलीयान् स्त्रीग्रहः खलु ॥ ४११ ॥ राज्ञ्यूचे दुर्निमित्तेनामुनाऽल्पायुरहं प्रिय ! । आजन्माद्धर्मवत्या मृत्युरप्यस्तु नास्ति भी ॥ ४१२ ।। प्रत्युताऽऽनन्दहेतुर्मे दुर्निमित्तस्य दर्शनम् । तज्ज्ञापनाय भवति यत्सर्वविरतौ मम ॥ ४१३ ॥ इत्युक्त्वाऽन्तपुरं राज्ञी ययावविकृताशया । अर्हद्धर्माविद्धकर्णो राजा तु व्यमनायत ।। ४१४ ॥ अन्यदा च कृतस्नानशौचा देवी प्रभावती । देवार्चावसरेऽर्हाणि दास्या वासांस्यनाययत् ।। ४१५ ॥ भाव्यनिष्टवशात्तानि राज्ञी रक्तान्युदैक्षत । समयेऽस्मिन्ननर्हाणि ह्यमूनीति चुकोप च । ४१६ ।। कोपात्प्रभावती दासीमादर्शेन जघान ताम् । तावताऽपि विपेदे सा मृत्योर्हि विषमा गतिः ॥ ४१७ ।। तत्कालमुज्ज्वलान्येव वसनानि प्रभावती । ददर्शाचिन्तयच्चैवं धिङ्मया खण्डितं व्रतम् ॥ ४१८ ॥
१ तानौधा ।
दशमं पर्व एकादश: सर्गः
श्रीमहावीरजिनचरितम् ।
उदायन
नृपतिचरित्रम् ।
।।३३२ ॥