________________
S
त्रिषष्टिशलाकापुरुषचरिते ॥३३३॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
पंचेन्द्रियस्यान्यस्यापि वधो नरककारणम् । किं पुनः स्त्रीविधातोऽयं श्रेयस्तस्माद्वतं मम ।। ४१९ ॥ दुर्निमित्तं तदाचख्यौ राज्ञे राज्ञी प्रभावती । दासीवधमहापापवैराग्यं च कृताञ्जलिः ।। ४२० ॥ इति चाभ्यर्थयांचक्रे स्वामिन्नल्पायुरस्म्यहम् । अनुजानीहि मां सर्वविरत्यै नाथ ! संप्रति ।। ४२१ ।। अमौलिं मां त्वमद्राक्षीरद्राक्षमधुना त्वहम्। वस्रवर्णपरावर्तमनिमित्तद्वयं ह्यदः ॥ ४२२ ।। अनिमित्तद्वयाऽऽख्याताल्पायुषः समयोचिते । प्रव्रज्याग्रहणे मेऽद्य प्रत्यूह नाथ ! मा कृथाः ।। ४२३ ।। एवमुक्तः सनिर्बन्धमभ्यधाद्वसुधाधवः । अनुतिष्ठ महादेवि ! यत्तुभ्यमभिरोचते ॥ ४२४ ।। देवत्वमाप्तया देवि ! बोधनीयस्त्वया न्वहम् । स्वर्गसौख्यान्तरायोऽपि सोढव्यो मत्कृते क्षणम् ।। ४२५ ।। ततश्च सर्वविरतिं प्रपद्यानशनं तथा । साऽभूद्विपद्य प्रथमे कल्पे देवो महर्द्धिकः ।। ४२६ ॥ देवाधिदेवप्रतिमां तामन्तःपुरचैत्यगाम् । तथैव देवदत्ताऽऽख्या कुब्जिका दास्यपूजयत् ।। ४२७ ॥ प्रभावत्यमरेणाथ बोध्यमानोऽप्युदायनः । नाबुध्यतावधेर्ज्ञात्वा तूपायोऽयं व्यधीयत ।। ४२८ ॥ तापसीभूय सोऽन्येधुर्मुसद्मोदायनं नृपम् । दिव्यामृतफलापूर्णपात्रपाणिरुपाययौ ।। ४२९ ॥ तापसचोपदाभृच्च सुवर्णं सुरभीति तम् । राजा तापसभक्तत्वात्तापसं बह्वमानयत् ।। ४३० ।। पवित्रमाण्यतिकर्पूरगन्धानीष्टाहृतानि च । फलान्याद परानन्दबीजानीवावनीपतिः ॥ ४३१ ॥ त्वया प्राप्तान्यपूर्वाणि क्वेदृशानि फलान्यहो ? । स्थानं दर्शय तन्मह्यमपृच्छदिति तं नृपः ।। ४३२ ।।
उदायननृपतिचरित्रम् ।
ASARASHRSHASHASHARE
||३३३॥