________________
त्रिषष्टि
| दशमं पर्व एकादशः
शलाकापुरुषचरिते
सर्गः
||३३१॥
श्रीमहावीर| जिन| चरितम् ।
भोजनातिक्रमं ज्ञात्वा राज्ञो राज्ञी प्रभावती । आह्वातुमादिशच्चेटीं पतिभक्तोचितं ह्यदः ।।३९२ ।। राज्ञाऽपि द्रष्टुमाश्चर्य तदाऽऽज्ञप्ता प्रभावती । तत्रागात्तदपृच्छच्च राजाऽप्यकथयत्तथा ॥३९३ ॥ ऊचे च राज्ञी देवाधिदेवा ब्रह्मादयो न हि । देवाधिदेवो भगवानेकोऽर्हन् परमेश्वरः ॥३९४ ।। तदर्हत्प्रतिमैवेह भविष्यति न संशयः । ब्रह्मादिनामस्मरणात् प्रदत्ते दर्शनं न सा ।। ३९५ ।। एषाऽहं दर्शयिष्यामि प्रतिमामर्हतः प्रभोः । तन्नामस्मरणादेव लोकाः पश्यत कौतुकम् ।। ३९६ ।। ततश्च संपुटं यक्षकर्दमेनाभिषिच्य तम् । पुष्पाञ्जलिक्षेपपूर्वं प्रणम्योचे प्रभावती ।। ३९७ ।। गतरागद्वेषमोहः प्रातिहार्याष्टकावृतः । देवाधिदेवः सर्वज्ञोऽर्हन् देयाद्दर्शनं मम ।। ३९८ ।। इति देव्यां ब्रुवाणायां प्रतिमास्थानसंपुटः । स व्यदालीत् स्वयमपि प्रगे कमलकोशवत् ।। ३९९ ।। गोशीर्षचन्दनमयी तदन्तर्देवनिर्मिता । अम्लानमाल्या सर्वांगसंपूर्णा प्रतिमैक्ष्यत ।। ४०० ।। तदाऽर्हच्छासनस्याभूदतिमात्रं प्रभावना । प्रभावत्यपि तां नत्वा प्रतिमामस्तवीदिति ।। ४०१ ।। सोमदर्शन सर्वज्ञापुनर्भव ! जगद्गुरो ! । अर्हन् ! भव्यजनानन्द ! विश्वचिन्तामणे ! जय ।। ४०२ ॥ सांयात्रिकं तं सत्कृत्य प्रभावत्यपि बन्धुवत् । अन्तरन्तःपुरं निन्ये प्रतिमा रचितोत्सवा ।। ४०३ ॥ कारयित्वा चैत्यगृहं प्रतिमां न्यस्य तत्र च । त्रिसंध्यं पूजयामास स्नानपूर्वं प्रभावती ॥ ४०४ ॥ तामन्यदाऽर्चामर्चित्वा प्रमोदेन प्रभावती । पत्या समेता संगीतमविगीतं प्रचक्रमे ।। ४०५ ॥
उदायननृपतिचरित्रम् ।
| ॥३३१॥