________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३०॥
*
| दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
*
*
*
विद्युन्माल्यपि तस्याऽऽज्ञामुररीकृत्य सत्वरः । क्षत्रियकुंडग्रामेऽस्मानपश्यत् प्रतिमास्थितान् ।। ३७९ ।। गत्वा महाहिमवति च्छित्वा गोशीर्षचन्दनम् । अस्मन्मूर्ति तथाष्टयं सालंकारां चकार सः ।। ३८० ।। जात्येन चन्दनेनाथ स्वयंघटितसंपुटे । प्रतिमां तां स चिक्षेप निधामिव *तद्धनः ॥३८१ ।। तदा चैकस्य पोतस्य षण्मास्युत्पातयोगतः । भ्रमतोऽगात् पयोराशौ विद्युन्माली ददर्श तम् ॥ ३८२ ।। तमुत्पातं स संहृत्य सद्यः सांयात्रिकाय तम् । समुद्गं प्रतिमागर्भ कथयित्वा समार्पयत् ।। ३८३ ।। ऊचे च तं स्वस्ति तुभ्यमिय्या निरुपद्रवम् । सिन्धुसौवीरविषये त्वं वीतभयपत्तनम् ।।३८४ ॥ ततश्चतुष्पथे स्थित्वा कुर्वीथा हन्त घोषणाम् । देवाधिदेवप्रतिमा गृह्यतां गृह्यतामिति ।। ३८५ ॥ सांयात्रिकोऽपि तत्कालं प्रतिमायाः प्रभावतः । नदीमिव नदीनाथमुत्तीर्य तटमासदत् ।।३८६ ।। सिन्धुसौवीरदेशेऽथ गत्वा वीतभये पुरे । स्थित्वा चतुष्पथे चक्रे तथैवाघोषणां स ताम् ।। ३८७ ॥ तापसभक्तस्तत्रागादुदायननृपः स्वयम् । त्रिदंडिनो द्विजन्मानस्तापसाश्चापरेऽपि च ।।३८८ ॥ विष्णुं ब्रह्माणमीशानमिष्टं देवमथापरम् । स्मृत्वा लोकाः कुठारेणाजध्नुस्तं काष्ठसंपुटम् ।। ३८९ ।। तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसा अप्यभज्यन्त कुठारास्त्रापुषा इव ।। ३९० ॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंतपतपनो मध्याह्नसमयोऽभवत् ॥३९१ ॥ टि०-* तद्धनः-कृपणः ।
*
उदायननृपतिचरित्रम् ।
**BR
||३३०॥
A RE