SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३२९ ॥ स नागिलवरो देवो यात्रायां यान् ददर्श च । हासाप्रहासयोर्वृन्दे तमानकधरं सुरम् ।। ३६६ ॥ तं विद्युन्मालिनं दृष्ट्वाः पुरः पटहवादकम् । अवधेः सुहृदं ज्ञात्वाऽभिभाषितुमुणसरत् ।। ३६७ ।। तस्य चांगप्रभालोकमुलूक इव भास्वतः । सोढुं दूरादप्यशक्तः पलायनमनाटयत् ॥ ३६८ ॥ सायाह्नार्क इव तेजः स्वं संहृत्याच्युतामरः । विद्युन्मालिनमित्यूचे पश्य जानासि मां न किम् ? ।। ३६९ ।। देवः पाटहिकोऽप्येवमुवाच ननु कोऽस्म्यहम् । यन्महद्धन्न जानामि देवानिन्द्रादिकानपि ॥ ३७० ॥ अथ श्रावकरुपं तद्विरचय्याच्युतामरः । हासाप्रहासारमणं तमेवं प्रत्यबोधयत् ।। ३७१ ।। सखे ! मदुपदेशेनाऽऽर्हतं धर्ममनाश्रयन् । अग्निमृत्युं तदाऽकार्षीः पतंग इव मूढधीः ।। ३७२ ।। अहं तु जिनधर्मज्ञः प्रव्रज्यां पालयन्मृतः । तदावयोरभूदीदृगुदर्कः स्वस्वकर्मणः ।। ३७३ ।। ततो निर्वेदमापन्न पंचशैलेश्वर सुरम् । वदन्तं किं करोमीति नागिलस्त्रिदशोऽवदत् । ३७४ ।। गार्हस्थ्यचित्रशालायां कायोत्सर्गेण तस्थुषः । प्रभोर्भावयतेर्मूर्तिं महावीरस्य कारयेः ।। ३७५ ।। अर्हतः प्रतिमायां हि कारितायां सखे ! तव । उत्पत्स्यते भवेऽन्यस्मिन् बोधिबीजं महाफलम् ॥ ३७६ ॥ रागद्वेषमोहजितां प्रतिमां श्रीमदर्हताम् । यः कारयेत्तस्य हि स्याद्धर्मः स्वर्गापवर्गदः ।। ३७७ ॥ *जिनार्चाकारकाणां न कुजन्म कुगतिर्न च । न दारिद्र्यं न दौर्भाग्यं न चान्यदपि कुत्सितम् ॥ ३७८ ॥ टि०-* अर्चा-प्रतिमा । दशमं पर्व एकादशः सर्गः श्रीमहावीर जिन चरितम् । उदायननृपतिचरित्रम् | ॥३२९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy