________________
त्रिषष्टि
शलाकापुरुषचरिते
॥३२८॥
किं करोमि क्व यामीति भाषमाणः स हेमकृत् । ताभ्यां पाणिपुटे कृत्वा चम्पोद्याने व्यमुच्यत ।। ३५२ ।। स चोपलक्ष्य लोकेन पृष्ट आख्यन्निजां कथाम् । स्मरन् हासां प्रहासां च प्रारेभेऽथाग्निसाधनम् ॥ ३५३ ॥ स नागिन सुहृदा तदैवं प्रत्यबोध्यत । मरणं युज्यते नैवं तव कापुरुषोचितम् ।। ३५४ ।।
दुष्प्रापं मानुषं जन्म तुच्छभोगफलार्जनात् । मा नैषीस्तन्मुधा प्रेप्सेत् को रत्नेन वराटिकाम् ? ।। ३५५ ।। भोगार्थो वाऽसि चेद्धर्मं तथाप्यार्हतमाश्रयेः । स ह्यर्थकामयोः कामधेनुः स्वर्मोक्षदोऽपि सः ।। ३५६ । स एवं वार्यमाणोऽपि नागिलेन निदानतः । इंगिनीमरणं कृत्वा पंचशैलाधिपोऽभवत् ।। ३५७ ॥ नागिलोऽपि स्वमित्रस्य तेनापंडितमृत्युना । आसाद्य सद्यो निर्वेदं परिव्रज्यामुपाददे ।। ३५८ ।। प्रव्रज्यां पालयन्मृत्वा देवोऽभूदच्युते च सः । ददर्शावधिना तं च सुहृदं पंचशैलगम् ।। ३५९ ।। श्रीनन्दीश्वरयात्रायां प्रस्थितानां दिवौकसाम् । हासाप्रहासे चलिते पुरो गातुं तदाज्ञया ।। ३६० ।। पटहग्रहणे ताभ्यां विद्युन्माली प्रवर्तितः । ऊचे ममापि किं नाम कश्चिदादेशदः प्रभुः ।। ३६१ । इत्यहंकारहुंकारमुखरास्यस्य तस्य तु । मूर्तं कर्मेवाऽऽभियोग्यं पटहो व्यलगद्गले ।। ३६२ । हस्तपादादिवदंगे पटहः सहभूरिव । तेनोत्तारयितुं शेके ह्रीमता न कथंचन ।। ३६३ ।। ऊचे हासाप्रहासाभ्यां कर्मेदमिहजन्मिनाम् । मा त्रपिष्ठाः प्रतिष्ठस्व वाद्योऽवश्यं त्वयाऽऽनकः ।। ३६४ ।। ततो हासापहासाभ्यां गायन्तीभ्यां समन्वितः । पटहं वादयन् सोऽगात् पुरतस्त्रिदिवौकसाम् || ३६५ ।।
অ
दशमं पर्व एकादशः
सर्गः
श्रीमहावीरजिनचरितम् ।
उदायन
नृपतिचरित्रम् |
॥३२८॥