SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । ||३२७॥ तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थं पतीच्छया । कुमारनन्द्यपि प्रोचे ते दृष्टवा के युवामिति ॥ ३३९ ॥ कथयामासतुस्ते च देव्यावावां मनुष्यक! । नाम्ना हासा प्रहासा च ते पश्यन्मोहमाप सः ।। ३४० ।। लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छेर्वीपे त्वं पंचशैलके ।। ३४१ ।। इत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे । दत्त्वा सुवर्ण पटहाघोषणामित्यकारयत् ।।३४२ ।। नेता यः पंचशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे ।। ३४३ ।। स्थविरः कारयित्वा च यानपात्रमपूरयत् । भूयसा पथ्यदानेन पुत्रेभ्यस्तु धनं ददौ ।। ३४४ ।। कुमारनन्दिना सार्धं यानारूढोऽब्धिवर्त्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः ।।३४५ ।। अब्धिकूले शैलपादजातोऽयं श्यते वटः । तदस्मिन् विलगेर्याति यानपात्रमधो यदा ॥ ३४६ ।। पंचशैलादिहेष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेषु चैकस्य कस्याप्यंहौ तु मध्यमे ।।३४७ ।। गाढं बद्ध्वा पटेन स्वं विलगढमुष्टिना । प्रातरुड्डीनभारुण्डै: पंचशैलं त्वमाप्स्यसि ।।३४८।। ।। युग्मम् ।। ततः परं यानपात्रं महावर्ते विनंक्ष्यति । अविलग्नो वटे हन्त त्वमप्येवं विनंक्ष्यसि ।। ३४९ ।। स स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥३५० ॥ ताभ्यां चोचेऽमुनांऽगेन नावां भोग्ये तवानघ! । अग्निप्रवेशादिना तत् पंचशैलाधिपो भव ॥३५१ ॥ १-"होद्धोष ।२ बाढं । उदायन नृपति चरित्रम् । ॥३२७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy