SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३२६ ॥ इति स्तुत्वा पुनर्नत्वा पप्रच्छ परमेश्वरम् । राजर्षिः कोऽन्तिमोऽथाख्यत् स्वामी नृपमुदायनम् ।। ३२५ ।। अपृच्छदभयो भूयः कोऽयं स्वामिन्नुदायनः । उदायनस्य चरितं ततश्चाकथयत्प्रभुः ॥ ३२६ ॥ सिन्धुसौवीरदेशेऽस्ति पुरं वीतभयाह्वयम् । तत्रोदायननामाऽभूदवनीशो महाभुजः ।। ३२७ ।। वीतभयादिनगरत्रिषष्टित्रिशतीप्रभुः । सिन्धुसौवीरप्रभृतिनीवृत्षोडशकेश्वरः ।। ३२८ ।। महासेनादिकदशकिरीटनृपनायकः । अन्येषामपि विनेता विजय्यासीन्महीतले ।। ३२९ ।। सम्यग्दर्शनपूतात्मा कृततीर्थप्रभावना । प्रभावतीति तस्याभूत् पत्नी नाम्ना प्रभावती ।। ३३० ॥ तस्य प्रभावतीजन्मा यौवराज्यधुरंधरः । जज्ञेऽभीचिः सुतः श्रेष्ठो भागिनेयश्च केश्यभूत् ।। ३३१ ॥ इतश्च पुरि चंपायामाजन्म स्त्रीषु लंपटः । नाम्ना कुमारनन्दीति स्वर्णकारोऽभवद्धनी ।। ३३२ ॥ यां यां कन्यां चारुरूपामपश्यदश्रृणोदपि । स्वर्णपंचशतीं दत्त्वा तां तां परिणिनाय सः ।। ३३३ ॥ शतानि पंच पत्नीनां बभूवुस्तस्य च क्रमात् । स ईर्ष्यालुरेकस्तम्भे सौधे ताभिररंस्त च ।। ३३४ ।। नागिलो नामधेयेन सुहृत्तस्यातिवल्लभः । श्रमणोपासकः शुद्धपंचाणुव्रतधार्यभूत् ।। ३३५ ।। एकदा तु पंचशैलद्वीपस्थे व्यन्तरस्त्रियौ । प्रास्थिषातां नन्दीश्वरयात्रायै शक्रशासनात् ।। ३३६ ।। तत्पतिः पंचशैलेशो विद्युन्माली तदा च्युतः । ते दध्यतुश्च व्युद्ग्राह्य कोऽद्य नौ यः पतिर्भवेत् ।। ३३७ ।। ततस्ताभ्यां प्रयान्तीभ्यां पत्नीनां पंचभिः शतैः । कुमारनन्दी विलसंश्चम्पापुर्यामध्श्यत ॥ ३३८ ॥ दशमं पर्व एकादश: सर्गः श्रीमहावीरजिन चरितम् । उदायन नृपति चरित्रम् | ॥३२६ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy