________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२५॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमंडलतस्तत्राभ्यागत्य समवासरत् ।।३११॥ दिष्ट्या भगवानागादिति हथेऽभयोऽपि हि । गत्वा नत्वा भगवन्तं भक्तिमानेवमस्तवीत् ।। ३१२ ।। सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ।।३१३ ।। आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेऽपि न भोगः सुखदुःखयोः ।।३१४ ।। पुण्यपापे बन्धमोक्षौ न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षौ नानित्यैकान्तदर्शने ।। ३१५ ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ।। ३१६ ।। यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथाऽऽत्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ।। ३१७ ॥ गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ।। ३१८ ॥ द्वयं विरुद्धं नैकत्रासत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि ष्टो मेचकवस्तुषु ।। ३१९ ।। विज्ञानस्यैकमाकारं नानाऽऽकारकम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ।। ३२० ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् । यौगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ।। ३२१ ।। इच्छन् प्रधानं सत्त्वाद्यैर्विरुद्धैर्गुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ।। ३२२ ।। विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु यस्य मुह्यति शेमुषी ।। ३२३ ॥ तेनोत्पादव्ययस्थेमसभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तुवस्तु सत् ।। ३२४ ॥
उदायननृपतिचरित्रम् ।
||३२५॥