________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२४॥
दशमं पर्व एकादशः सर्ग: श्रीमहावीर| जिनचरितम् ।
दिनमेकं प्रतीक्षध्वमूर्ध्वं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ।।२९८ ॥ सोऽथ राजकुलात् कृष्ट्वा रत्नकोटित्रयीं बहिः । दास्याम्येतामेत लोकाः! पटहेनेत्यघोषयत् ।।२९९ ॥ ततश्चैयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ।।३०० ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कर्तुमीश्वरः ? । इति तेष्वाभाषमाणेष्वभयोऽपीत्यभाषत ।।३०१ ।। यदि वो नेशः कश्चिद्रनकोटित्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ॥३०२ ।। सम्यगीगयं साधुः पात्रदानस्य युज्यते । मुधाऽसौ हसितोऽस्माभिरिति तैर्जगदेऽभयः ॥३०३ ।। अस्य भयॊपहासादि न कर्तव्यमतः परम् । आदिष्टमभयेनेवं प्रतिपद्य ययुर्जनाः ।। ३०४ ।। एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो राज्यमन्वशिषत्पितुः ॥३०५ ॥ वर्तमानः स्वयं धर्मे स प्रजा अप्यवर्तयत् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ।। ३०६ ।। राजचक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि सोऽप्रमद्वरमानसः ॥३०७ ॥ बहिरंगान्यथाऽजैषीद् दुर्जयानपि विद्विषः । अन्तरंगानपि तथा स लोकद्वयसाधकः ॥ ३०८ ॥ तमूचे श्रेणिकोऽन्येधुर्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीरशुश्रूषासुखमन्वहम् ॥३०९ ।। पित्राज्ञाभंगसंसारभीरुरित्यभयोऽब्रवीत् । यदादिशथ तत्साधु प्रतीक्षध्वं क्षणं परम् ॥३१०॥ १'तश्चेयुर्ज।
AORASHARASHARABHASHASHRSHASHRA
उदायननृपतिचरित्रम् ।
॥३२४॥