________________
त्रिषष्टि
शलाकापुरुषचरि
॥३२३ ॥
अथाभयेन प्रद्योतसध्गेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ।। २८५ ।। ईशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदज्जने ॥ २८६ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायाऽऽर्तमिवाभयः ।। २८७ ॥ नीयमानश्च तेनोच्चैः स उन्मत्तश्चतुष्पथे । प्रद्योतोऽहं ह्रियेऽनेनेत्युदश्रुवदनोऽरटत् ॥ २८८ ॥ सप्तमेऽह्नि नृपोऽप्यागात्तत्र प्रच्छन्नमेककः । कामान्धः सिन्धुर इव बद्धश्चाभयपूरुषैः ।। २८९ । नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्यंकेन समं जड़े पुरान्तः स रटन् दिवा ।। २९० ।। क्रोशे क्रोशे पुरो मुक्तो रथैरथ सुवाजिभिः । पुरे राजगृहेऽनैषीत् प्रद्योतमभयोऽभयः ।। २९१ ।। ततो निनाय प्रद्योतं श्रेणिकस्य पुरोऽभयः । दधावे खङ्गमाकृष्य तं प्रति श्रेणिको नृपः ॥ २९२ ॥ अथाभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा ।। २९३ ।। अन्यदा गणभृद्देवसुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत् कोऽपि विरक्तः काष्ठभारिकः ।। २९४ ।। विहरन् स पुरे पौरैः पूर्वावस्थाऽनुवादिभिः । अभर्त्स्यतोपाहस्यतागर्ह्यतापि पदे पदे ।। २९५ ।। नावज्ञां सोढुमीशोऽत्र ततो विहरतान्यतः । इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं गुरुम् ।। २९६ ।। सुधर्मस्वामिनान्यत्र विहारक्रमहेतवे । आपृच्छ्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ।। २९७ ॥
१- श्मन्यभ' । २ पुरा ।
दशमं पर्व
एकादशः सर्गः श्रीमहावीर
जिन
चरितम् ।
चण्डप्रद्योतस्य अपहरणं मोचनं च ।
॥३२३ ॥