________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ||३२२॥
एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
SORRORAKSHARASHRSHASRASAHARS
अभाषताभयोऽप्येवं महराज्ञी शिवा स्वयम् । करोतु कूरबलिना भूतानामर्चनं निशि ॥२७२ ।। यद्यद् भूतं शिवारूपेणोत्तिष्ठत्यथवाऽऽस्यते । तस्य तस्य मुखे देव्या क्षेप्यः कूरबलि स्वयम् ।। २७३ ॥ विदधे शिवया तच्चाशिवशान्तिर्बभूव च । तुर्यं चादाद्वरं राजा ययाचे चाभयोऽप्यदः ॥२७४ ।। स्थितो नलगिरौ मिठीभूते त्वयि शिवांकगः । अहं विशाम्यग्मिभीरुरथदारुकृतां चिताम् ।। २७५ ॥ ततो विषण्णः प्रद्योते वरं दातुमशक्नुवन् । विससर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ।। २७६ ।। आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्च्छलादहम् । दिवा रटन्तं पूर्मध्ये त्वां तु नेष्याम्यसावहम् ।। २७७ ।। ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कंचित्कालं महामतिः ॥२७८ ॥ गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीद् गृहम् ।। २७९ ।। प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षतः ।। २८० ।। प्रद्योतेन गृहे गत्वा प्रेषिता रागिणा ततः । दूत्यनुनयन्ती ताभ्यां क्रुद्धाभ्यामपहस्तिता ।।२८१ ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय सा । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ।। २८२ ।। तृतीयेऽप्यहन्यनिर्वेदादेत्य ते याचिते तया । अवोचतां सादचारो भ्राता नावेष रक्षति ॥ २८३ ।। ततो बहिर्गतेऽमुष्मिन् सप्तमेऽह्नि समागते । इहायातु नृपश्छन्नस्ततः संगो भविष्यति ।। २८४ ॥ १ मेठी । मेढी ।
अभयकुमारस्य बुद्धिः मुक्तिश्च।
||३२२॥