________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३२१॥
| एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
निषादिनो नलगिरिं वालयित्वा ततश्च ते । पथा यथागतेनैव पुनरुज्जयिनी ययुः ॥२६० ॥ कटकोपक्रम कुर्वन् प्रद्योतः कुलमन्त्रिभिः । भक्तैः कोपकृतान्तोऽपि युक्तिपूर्वमवार्यत ।। २६१ ।। वराय यस्मै कस्मैचिद्देयाऽवश्यं हि कन्यका । तद्वत्सगजादधिकं कं जामातरमाप्स्यसि ।। २६२ ।। भेजे वासवदत्ता त्तं स्वयमेव स्वयंवरा । स्वामिंस्त्वदुहितुः पुण्यैरुचितः सोऽभवद्वरः ।। २६३ ।। तदलं कटकारंभेणानुमन्यस्व तं वरम् । यतो वासवदत्तायाः स कौमारहरोऽभवत् ।। २६४ ॥ इति तैर्बोधितो राजा वत्सराजाय संमदात् । प्रैषीज्जामातृभावार्ह वस्तुजातं विधेयवित् ।।२६५ ॥
अभूदवन्त्यामन्येधुर्निर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभयोऽवदत् ॥२६६ ॥ | विषस्येव विषं वह्वेर्वह्निरेव यदौषधम् । तदन्यः क्रियतां वह्निर्यथा शाम्येत्प्रदीपनम् ।। २६७ ।। तत्तथा विदधे राजाऽशाम्यतश्च प्रदीपनम् । तृतीयं च वरं सोऽदानयासीचक्रेऽभयश्च तम् ।। २६८ ॥ अशिवं महदन्येधुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ।। २६९ ।। आगच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्माञ्जयति या दृष्ट्या कथनीया तु सा मम ।। २७० ।। तथैव विदधे राज्ञा राज्योऽन्या विजिता दृशा । देव्या तु शिवया राजा कथितं चाभयाय तत् ।। २७१ ॥ १-यथा । २ राज्ञा ।३ राजा ।
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
||३२१॥