________________
दशमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३२०॥
सर्गः
श्रीमहावीरजिनचरितम् ।
कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा प्राणत्यागं करिष्यति ॥२४६ ।। वसन्तको हस्तिपकोऽबध्नादुदयनाज्ञया । चतस्रो मूत्रघटिकाः करिण्याः पाश्वयोर्द्वयोः ।। २४७ ।। वत्सराजो घोषवतीपाणिः प्रद्योतनन्दना । काञ्चनमाला वसन्तश्चारोहस्तमथ द्विपीम् ।। २४८ ॥ योगन्धरायणोऽप्येत्य नुनोद करसंज्ञया । याहि याहीत्युदयनं सोऽपि गच्छत्रदोऽवदत् ।। २४९ ।। वासवदत्ता काञ्चनमाला चैव वसन्तकः । वेगवती घोषवती वत्सराजश्च यान्त्यमी ।। २५० ॥ प्रेरयन् वारणवधू वत्सराजोऽतिरंहसा । आत्मानं ज्ञापयन्नेवं नालुंपत्क्षत्रियव्रतम् ॥ २५१ ॥ प्रद्योतोऽपि गतं ज्ञात्वोदयनं पंचभिः सह । करौ जघर्षाक्षबूते पाशकान् पातयन्निव ।। २५२ ।। अवन्तीशो नलगिरि सन्नाह्यासह्यविक्रमः । निषादिभिर्महायोधैरास्थितं पृष्ठतोऽमुचत् ।। २५३ ।। पञ्चविंशतियोजन्यामतीतायां स कुञ्जरः । अदवीयानुदयनेनाश्यत भयंकरः ।। २५४ ॥ ततो मूत्रघटीमेकां स्फोटयित्वा महीतले । तथैव प्रेरयामासोदयनस्तां करेणुकाम् ।। २५५ ॥ गजोऽपि तद्धघटीमेकां जिघ्रन् क्षणमिवास्थित । कष्टेन प्रेर्यमाणस्तु प्रससार पुनस्तथा ।। २५६ ॥ मार्गे मूत्रघटीरन्या अपि तावति तावति । स्फोटं स्फोटं नलगिरेर्वत्सराजोऽरुणद्गतिम् ।।२५७ ।। योजनानां शतं गत्वा कौशाम्बी प्रविवेश सः । परिश्रान्ता तदा सा च व्यपद्यत करेणुका ।।२५८ ।। यावच्च मूत्रमाजिघ्रन् प्रससार न वारणः । कौशाम्बीपतिसेनाऽपि तावद्योद्धमढौकत ।। २५९ ।।
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
||३२०॥