________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१९॥
दशमं पर्व एकादशः सर्ग: श्रीमहावीरजिनचरितम् ।
अन्यदोद्यापनिकयोद्यानं प्रत्यचलन्नृपः । सान्तःपुरपरीवारः पौरैः सह महर्द्धिभिः ।। २३२ ॥ तदा च वत्सराजस्य मोक्षोपायं विचिन्तयन् । मार्गे परिभ्रमन्नासीन्मंत्री योगन्धरायणः ।। २३३ ।। स्वबुद्धिविभवोष्माणं हृदन्तर्धर्तुमक्षमः । स पपाठ यन्मनसि प्रायस्तद्धि वचस्यपि ।। २३४ ।। यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे नाहं योगन्धरायणः ।। २३५ ।। गच्छंश्च चंडप्रद्योतस्तस्य वाचं ससौष्ठवाम् । आकर्ण्य तं निरैक्षिष्ट दुष्कटाक्षेण चक्षुषा ।। २३६ ॥ योगन्धरायणोऽप्याशु परेषामिंगितादिभिः । भावज्ञोऽवन्तिनृपतिं विवेद कुपितं तदा ॥ २३७ ॥ कौशाम्बीपतिगृह्यत्वमपाकर्तुं स आत्मनः । प्रत्युत्पन्नधियां धुर्य इदमौपयिकं व्यधात् ।। २३८ ॥ मुक्त्वा संव्यानमूर्ध्वस्थः प्रेतातिविकृताकृतिः । मूत्रयन् व्यञ्जयामास भूताविष्टत्वमात्मनः ।। २३९ ॥ पिशाचकी कश्चिदसाविति ज्ञात्वा नृपोऽपि हि । सद्यः कोपं निजग्राह निषादीव मतंगजम् ।। २४० ।। ततश्च चण्डप्रद्योतो गत्वोद्यानेऽनवधवाक् । गान्धर्वगोष्ठीमारेभे स्मरद्विपमहौषधम् ।। २४१ ।। गान्धर्वकौशलं द्रष्टुं नवं प्रद्योतभूपतिः । आह्वद्वासवदत्तां च वत्सराजं च कौतुकी ।। २४२ ।। ऊचे प्रद्योततनयां वत्सराजः शुभानने ! । आरुह्येभी वेगवतीं गन्तुं कालोऽयमावयोः ।। २४३ ।। सद्यो जितमरुद्वेगां ततो वेगवतीमिभीम् । आनाययदवन्तीशदुहितोदयनाज्ञया ।। २४४ ।। कक्षायां बध्यमानायां सा ररास च हस्तिनी । श्रुत्वा तद्रसितं चैवमन्धमौहूर्तिकोऽवदत् ।। २४५ ।।
अभयकुमारस्य
मुक्तिश्च ।
॥३१९॥