________________
दशमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३१८॥
सर्गः
श्रीमहावीरजिनचरितम् ।
SARASHASHASANSAR
तं च वासवदत्ताऽपि सद्यः स्फारितलोचना । सर्वांगसुभगं साक्षादिवाद्राक्षीन्मनोभुवम् ।। २१८ ॥ दृष्ट्वा वासवदत्तां तं वत्सराजोऽपि तां तदा । परस्परानुरागर्द्धिसूचकं चक्रतुः स्मितम् ।।२२० ।। प्रद्योतपुत्री प्रोवाच धिग्धिक् पित्राऽस्मि वंचिता । कूहूतमिनेन्दुमिव याऽपश्यं त्वां न सुन्दर ! ॥ २२१ ॥ कलाचार्य ! कलाः सम्यग्मयि संक्रमितास्त्वया । तास्तवैवोपयोगिन्यः सन्तु भर्ता त्वमेधि मे ।। २२२ ॥ वत्सराजोऽवदद्भद्रे ! त्वत्पित्रैवास्मि वंचितः । काणेत्यन्तरितां कृत्वा त्वां पश्यन्नस्मि वारितः ।। २२३ ॥ कान्ते ! तदावयोर्योगो भवत्वत्रैव तस्थुषोः । समये त्वां हरिष्यामि वैनतेयः सुधामिव ।। २२४ ॥ स्वयंदूत्येन वैदग्धीबन्धुरं जल्पतोरिति । मनोयोगस्पर्द्धयेव वपुर्योगोऽप्यभूत्तयोः ।। २२५ ।। दासी वासवदत्ताया धात्री विश्रम्भभाजनम् । एका काञ्चनमालैव विवेद चरितं तयोः ।। २२६ ॥ एकयैवोपास्यमानौ दास्या काञ्चनमालया । केनाप्यज्ञातदाम्पत्यौ तौ कालमतिनिन्यतुः ॥ २२७ ।। अन्यदाऽऽलानमुन्मूल्य पातयित्वा निषादिनौ । स्वैरं नलगिरिम्यन् क्षोभयामास नागरान् ।। २२८ ॥ असाववशगो हस्ती वशं नेयः कथं न्विति । राज्ञा पृथेऽभयोऽशंसद्गायतूदयनो नृपः ।। २२९ ॥ गीतं नलगिरेरग्रे कुर्वित्युक्तोऽथ भूभुजा । जगावुदयनस्तत्र समं वासवदत्तया ।।२३० ।। तद्गीताकर्णनाऽऽक्षिप्तो बद्धो नलगिरिःकरी । पुनर्ददौ वरं राजा न्यासीचक्रेऽभयस्तथा ।। २३१ ॥ १-'मेव ।
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
||३१८॥