________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३१७॥
एकादशः सर्गः श्रीमहावीर
जिन
चरितम् ।
प्रद्योताऽऽयुक्तसुभटाः निःसृत्य द्विरदोदरात् । पातयित्वा गजस्कंधाद्वत्सराजमबन्धयन् ।। २०५ ।। एकाकी च निरस्त्रश्च विश्वस्तश्च शतैर्भटैः । नाकार्षीत् पौरुषं रुद्धः कुक्कुरैरिव सूकरः ।। २०६ ।। ऊचे च चण्डप्रद्योतो वत्सराज भटार्पितम् । मत्पुत्रीं शिक्षयैकाक्षीं त्वं गान्धर्वकलां निजाम् ।। २०७ ।। मत्कन्याऽध्यापनेन त्वं सुखं तिष्ठ मदोकसि । अन्यथा तव बद्धस्य मदधीनं हि जीवितम् ।। २०८ ।। दध्यावुदयनोऽप्येवं कन्यामध्यापयन्नहम् । कालं क्षिपामि जीवन हि नरो भद्राणि पश्यति ।। २०९ ।। इति चेतसि निश्चित्य तत्प्रद्योतस्य शासनम् । अनुमेने वत्सराजः स पुमान् यो हि कालवित् ।। २१० ।। ऊचे च चंडप्रद्योतः काणा हि दुहिता मम । मा जातु तां निरीक्षेथाः सा हि लज्जिष्यतेऽन्यथा ।। २११ ॥ इत्युक्त्वाऽन्तःपुरे गत्वा तनयामप्युवाच सः । गान्धर्वगुरुरायातो न वीक्ष्यः कुष्ठ्ययं यतः ।। २१२ ।। वत्सराजोऽपि गान्धर्वं तां तथैवाध्यजीगपत् । प्रद्योतवंचितौ तौ तु मिथो दशतुर्न तु ।। २१३ ।। पश्याम्यमुमिति ध्यायन्त्यन्यदाऽवन्तिनाथसूः । मनःशून्याऽन्यथापाठीन्मनोऽधीनं हि चेष्टितम् ।। २१४ ॥ वत्सराजस्तदाऽवन्तिराजपुत्रीमतर्जयत् । विनाशयसि किं शास्त्रं काणे ! दुःशिक्षितासि किम् ? ।। २१५ ॥ सा तिरस्कारकुपिता वत्सराजमदोऽवदत् । किं काणामभिधत्से मां कुष्ठिनं स्वं न पश्यसि ? ॥२१६ ॥ दध्यौ चैवं वत्सराजः कुष्ठभाग यागस्म्यहम् । काणापि तागेवैषा पश्यामि तदिमां खलु ।। २१७ ।। इत्यपासारयत् काण्डपटं स धिषणापटुः । ददर्श मेघनिर्मुक्तामिन्दुलेखामिवाथ ताम् ।। २१८ ॥
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
||३१७॥