________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१६॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
PRAHARASHRSHAHARASHRSHASHRS
स गायति वने गत्वा गजास्तद्गीतमोहिताः । अपि बन्धं न जानन्ति पीतस्वादुरसा इव ।।१९२ ।। गीतोपायेन स यथा वने बध्नाति सिन्धुरान् । तथा तस्याप्युपायोऽस्ति बन्धेऽत्रानयनेऽपि च ।। १९३ ।। कार्यस्तत्र किलिजैश्च वने सत्य इव द्विपः । कुर्वन् यंत्रप्रयोगेण क्रिया गत्यासनादिकाः ।। १९४ ॥ किलिञ्जहस्तिमध्ये च भटाः स्थास्यन्ति शस्त्रिणः । ते गजं चलयिष्यन्ति भत्स्यन्ति च त एव तम् ।। १९५ ॥ बद्ध्वा चैवं वत्सराज इहानीतस्तवाऽऽज्ञया । कन्यां वासवदत्तां ते गान्धर्व शिक्षयिष्यति ।। १९६ ॥ साधु साध्विति राज्ञाऽनुमतो मन्त्र्यपि तं तथा । अकारयद्गजं सत्यगजादप्यधिकं गुणैः ॥ १९७ ।। दन्तघातकरोत्क्षेपबृंहितप्रसरादिभिः । तं कुञ्जरं वनचरा विदाञ्चक्रुरकुत्रिमम् ।। १९८ ॥ वनेचरास्तं करिणमाख्यन्नुदयनाय ते । तद्बन्धार्थ वने तस्मिन् ययावुदयनोऽपि हि ।। १९९ ।। दूरे मुक्त्वा परीवारं परिक्रामञ्च्छनैः शनैः। शकुनान्वेषक इव वनान्तः प्रविवेश सः ।। २०० ।। मायाकरटिनस्तस्य समीपमुपसृत्य च । जगावुदयनस्तारमधरीकृतकिन्नरः ।। २०१ ॥ जगावुदयनो गीतं सुधास्वादु यथा यथा । तथा तथाऽन्तःपुरुषाः स्तिमितांगं गजं व्यधुः ॥२०२ ॥ कौशाम्बीशोऽपि तं नागं मन्वानो गीतमोहितम् । शनैः शनैरभ्यसर्पत्तिमिरे संचरन्निव ।।२०३ ।। स्तब्धोऽयं मम गीतेनेत्युपसृत्य स पार्थिवः । उत्प्लुत्येभं तमारोहद्विहंग इव पादपम् ।। २०४ ॥ १-२ कलिं' ।३ वश्यति । भय॑न्ति । भेत्स्यन्ति ।
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
॥३१६॥