________________
त्रिषष्टिशलाका
पुरुषचरिते
।।३१५ ।।
दूरं गत्वा भोक्तुकामः शकुनैर्वारितः पुनः । ततो गत्वा स तत्सर्गं प्रद्योतस्य न्यवेदयत् ।। १७९ ।। ततो राज्ञा समाहूय तत्पृष्टः श्रेणिकात्मजः । पाथेयभस्त्रामाघ्राय जगाद मतिमानिदम् ।। १८० ।। अस्ति दृष्टिविषोऽत्राहिर्द्रव्यसंयोगसंभवः । असौ दग्धो भवेन्नूनं भस्त्रामुद्धारयेद्यदि ।। १८१ ।। ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ।। १८२ ॥ विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्न्यासी भूतोऽस्तु मे वरः ।। १८३ ।। इतश्च चंडप्रद्योतराजस्य श्रीरिवोदधेः । अभूद्वासवदत्तेति सुतांऽगारवतीभवा ।। १८४ ।। धात्रीजनैर्लाल्यमाना वर्धमाना क्रमेण सा । राज्यलक्ष्मीरिव साक्षाद्रेमे राजगृहांगणे ।। १८५ ।। सर्वलक्षणसंपूर्णां विनयादिगुणान्विताम् । पुत्रादप्यधिकां मेने राजा तामतिवत्सलः ।। १८६ ।। आत्मानुरुपगुर्वन्ते साऽध्यैष्ट सकलाः कलाः । गान्धर्ववेद एवैकोऽवाशिष्यत गुरुं विना ।। १८७ ।। राजाऽपृच्छच्च सचिवं बहुदृष्टं बहुश्रुतम् । भावी को नाम दुहितुर्गान्धर्वाध्यापने गुरुः ।। १८८ ॥ प्रायेण राजपुत्रीणां गतानां पतिवेश्मनि । पत्युर्विनोदे गान्धर्वकलैव ह्युपयोगिनी ॥ १८९ ॥ मन्त्री प्रोवाच गान्धर्वधुरीणानां शिरोमणिः । संप्रत्युदयनो राजा मूर्तिरन्यैव तुम्बरोः ।। १९० ।। श्रूयते तस्य गान्धर्वकला काऽप्यतिशायिनी । गीतेन मोहयित्वा यो वने बध्नाति सिन्धुरान् ॥ १९१ ॥ १ "रान्मु । २ णोक्तो ।
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिन
चरितम् ।
अभयकुमारस्य
बुद्धिः मुक्तिश्च ।
॥३१५॥