________________
त्रिषष्टिशलाकापुरुषचरिते ॥३१४॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
किमिहाभय आयात ? इत्युक्ता तैरुवाच सा । इहाभयः समायातः परं यातस्तदैव हि ।। १६६ ॥ वचनप्रत्ययात्तस्या अन्यत्रेयुर्गवेषकाः । स्थाने स्थाने स्थापिताश्वैः साऽप्यवन्तीं समाययौ ।। १६७ ।। सा प्रचंडाभयं चंडप्रद्योतायाऽऽपर्यत्ततः । अभयानयनोपायस्वरुपं च व्यजिज्ञपत् ।। १६८ ॥ तां प्रद्योतोऽप्युवाचैवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छद्मनाऽऽनयः ।। १६९ ।। कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ।। १७० ॥ अभयोऽप्यब्रवीदेवं त्वमेव मतिमानसि । यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्धते ॥ १७१ ।। लज्जितः कुपितश्चाथ चंडप्रद्योतभूपतिः । राजहंसमिवाक्षप्सीदभयं काष्टपञ्जरे ।। १७२ ।। अग्निभीरुरथो देवी शिवा नलगिरिः करी । लोहजंधो लेखवाहो राज्ये रत्नानि तस्य तु ।। १७३ ।। लोहजघं नृपः प्रैषीद् भृगुकच्छे मुहुर्मुहुः । तद्गताऽऽगतसंक्लिष्टास्तत्रत्या इत्यसूत्रयन् ।। १७४ ।। आयात्ययं दिनेनापि पंचविंशतियोजनीम् । असकृद्ध्याहरत्यस्मान् हन्मः संप्रत्यमुं ततः ।। १७५ ।। ते विमृश्येत्यदुस्तस्य शम्बले विषमोदकान् । तद्भस्त्राशम्बलं चान्यत् समन्तादप्यपाहरन् ।। १७६ ।।
वर्त्म कियदप्युल्लंघ्य नदीरोधसि शम्बलम् । तद्भोक्तुमवतस्थे सोऽभूवन्नशकुनान्यथ ।। १७७ ॥ || शकुनज्ञस्तु सोऽभुक्त्वोत्थाय दूरं ययौ ततः । क्षुधितो भोक्तुकामोऽभूद्वारितः शकुनैः पुनः ।। १७८ ।।
१°सौ भूव । २ नास्तथा । नान्यथा ।
अभयकुमारस्य बुद्धिः मुक्तिश्च ।
॥३१४॥