________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥३११॥
एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
KASAHASRASHARASHRSHASRE
तदावासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ? ।। १२७ ।। विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वा स पलायितः ।। १२८ ।। नष्टे तत्र च तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाधाददे सारं मगधेन्द्रः समंततः ॥ १२९ ॥ नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथंचित् स्वां पुरीं ययौ ॥१३०॥ नृपा ये बद्धमुकुटा ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥ १३१ ॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यायुरुज्जयिनी पुरीम् ॥ १३२ ॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं बद्ध्वा मम संपत्स्यते स किम् ।। १३४ ॥ पताकं हस्तमुत्क्षिप्य काप्येका गणिका ततः । व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ।।१३५ ।। तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यादिसाहाय्यं ब्रूहि किं तव संप्रति ? ।। १३६ ।। सा च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरैः । धर्मच्छद्म तदादाय साधयामि समीहितम् ।। १३७ ॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ १३८ ।। कृतादराः प्रतिदिनमुपास्योपास्य संयतीः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥१३९ ॥ १°ष्ट्वाशुप" ।ष्ट्वा च प ।२ "लायत ।३ क्याब्धि । काब्धि । ४ °युवेगेन । ५ हेतुना ।
चण्डप्रद्योतस्य श्रेणिकोपरि आक्रमणम् पलायनं च ।
||३११॥