________________
दशमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३१२॥
सर्गः
श्रीमहावीर
जिन
चरितम् ।
PRASHARASHRSHASHASHRSHASHA
तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालंकृतं पुरम् । जगत्त्रयीं वंचयितुं मायाया इव मूर्तयः ।। १४० ॥ बाह्योद्याने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ।। १४१ ॥ सा विभूत्याऽतिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् ।। १४२ ।। मालवकैशिकीमुख्यग्रामरागजुषा गिरा । देवं वन्दितुमारेभे सपर्या विरचय्य सा ।। १४३ ॥ तत्राभयकुमारोऽपि ययौ देवं विवन्दिषुः । अग्रे चाऽऽत्मतृतीयां तां वन्दमानामुदैवत ॥ १४४ ।। देवदर्शनविघ्नोऽस्या मा भूत्प्रविशता मया । द्वार्येवेत्यभयस्तस्थौ मंडपान्तर्विवेश न ।। १४५ ॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया । यावदुत्तस्थुषी तावदभयोऽभ्याजगाम ताम् ।। १४६ ॥ तादृशीं भावनां तस्यास्तं वेषं प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ।। १४७ ॥ दिष्ट्या भद्रेऽधुना त्वादृक्साधर्मिकसमागमः । साधर्मिकात्परो बन्धुन संसारे विवेकिनाम् ।। १४८ ।। का त्वं? किमागमः ! का वाऽऽवासभूरिमके च के । यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे ।। १४९ ॥ व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा त्वहम् ।। १५० ॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भग्नवृक्षलते इव ।। १५१ ॥ व्रतार्थ पृच्छतः स्मैते उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ।।१५२ ।। १न्व।
अभयकुमारस्य अपहरणम् ।
&
॥३१२॥