________________
%AS
त्रिषष्टिशलाकापुरुषचरिते ॥३१०॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
ASASHASABHASHRSHASHRSHA
अन्यदोज्जयिनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्या रोर्बु राजगृहं पुरम् ।। ११४ ।। प्रद्योतो बद्धमुकुटाश्चान्ये भूपाश्चतुर्दश । तत्रायान्तो जनैदृष्टाः परमाधार्मिका इव ।। ११५ ॥ पाटूपटप्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ।। ११६ ।। श्रेणिकोऽचिन्तयत् किंचित्प्रद्योतोऽत्र समापतन् । क्रूरग्रह इव क्रुद्धः कार्यो हतबलः कथम् ।। ११७ ।। ततोऽभयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ।। ११८ ।। यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनीशोऽद्य भवेयुद्धातिथिर्मम ।। ११९ ।। यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद् बुद्धिर्हि जयकामधुक् ।। १२० ।। अथ बाह्येऽरिसैन्यानामावासस्थाने भूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ।। १२१ ।। प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव ।। १२२ ।। अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषतरभाषिभिः ॥ १२३ ॥ शिवादेवीचेलणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसंबन्धेनापि सर्वदा ।। १२४ ॥ तेनावन्तीश ! वच्मि त्वामेकान्तहितवांछया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ।। १२५ ।। दीनाराः प्रेषिताः सन्ति तेभ्यस्तान कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः ।। १२६ ।।
चण्डप्रद्योतस्य श्रेणिकोपरि आक्रमणम् पलायनं च ।
||३१०॥