________________
दशमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३०९॥
सर्गः
श्रीमहावीरजिनचरितम् ।
अशेषमेतन्मुषितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर! ॥ १०१।। कमपि प्रेषय यथा तल्लोत्रं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् ।। १०२ ॥ अभयोऽपि समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहागात्तेन दस्युना ।। १०३ ।। ततो गिरिणदीकुञ्जश्मशानादिषु तद्धनम् । स्थगितं दर्शयामास चौरः श्रेणिकसूनवे ।। १०४ ।। अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मंत्रिणां नापरा स्थितिः ।। १०५ ।। परमार्थं कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुर्भगवत्पाघे रौहिणेयः समाययौ ।। १०६ ।। अथ श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्थे श्रीवीरपादयोः ।। १०७ ।। ततश्चतुर्थादारभ्य षण्मासी यावदुज्ज्वलम् । विनिर्ममे तपःकर्म कर्मनिर्मूलनाय सः ।। १०८ ॥ तपोभिः क्रशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमापृच्छय गिरौ पादपोपगमं व्यधात् ।। १०९ ।। शुभध्यानः स्मरन् पंचपरमेष्टिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रौहिणेयो महामुनिः ।। ११० ॥ ततोऽपि भगवान् कर्तुं तीर्थकृत्कर्मनिर्जराम् । विजहार वृतो देवैः कोटिसंख्यैर्जघन्यतः ॥१११ ॥ कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान् प्रभुः ।।११२ ।। इतश्च श्रेणिको राजा तस्मिन् राजगृहे पुरे । सम्यक्त्वं धारयत् सम्यङ्नीत्या राज्यमपालयत् ।। ११३ ॥
रौहिणेयचरित्रम् ।
॥३०९॥