________________
त्रिषष्टिशलाका
पुरुषच 1130211
एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । प्रणम्य चरणौ भक्त्या रौहिणेयो व्यजिज्ञपत् ॥ ८८ ॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायते ते गीरायोजनविसर्पिणी ॥। ८९ ।। निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाऽऽप्तमानिना । इयत्कालमहं पित्रा वंचितस्त्रिजगद्गुरो ! ॥ ९० ॥ त्रैलोक्यनाथ ! ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूषं कर्णाञ्जलिपुटैः सदा ।। ९१ ।। अहं तु पापोऽशुश्रूषुर्भवतो भगवन् ! वचः । पिधाय कर्णौ हा कष्टमिदं स्थानमलंघयम् ।। ९२ ।। एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मंत्राक्षरेणेव रक्षितो राजराक्षसात् ।। ९३ ।। यथाऽहं मरणात्त्रातस्तथा त्रायस्व नाथ ! माम् । संसारसागरावर्ते निमज्जन्तं जगत्पते ! ।। ९४ ।। ततस्तत्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ।। ९५ ।। ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश्यतां ? प्रभो ! ।। ९६ ।। योग्योऽसीति स्वामिनोक्तो ग्रहीष्यामि विभो ! व्रतम् । परं किंचिद्वदिष्यामि श्रेणिकेनेत्युवाच सः ॥ ९७ ॥ निर्विकल्पं निर्विशंकं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः ॥ ९८ ॥ इह देव ! भवद्भिर्यः श्रुतोऽहं लोकवार्तया । स एष रौहिणेयोऽस्मि भवत्पत्तनमोषकः ।। ९९ ।। भगवद्वचसैकेन दुर्लघ्या लंघिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥ १०० ॥
१ तस्य ।
PRIMA
दशमं पर्व एकादश: सर्गः श्रीमहावीरजिनचरितम् ।
रौहिणेयचरित्रम् |
||३०८ ॥