________________
त्रिषष्टिशलाकापुरुषचरिते ||३०७॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
रौहिणेयस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥ ७४ ।। प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधाऽर्चया । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ।।७५ ।। इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस दुश्चरित्रमपि स्वकम् ।। ७६ ।। रौहिणेयोऽप्युवाचैवं साधुसंसर्गशालिना । कदाचिदप्याचरितं किंचिन्नाशोभनं मया ।। ७७ ।। व्याजहार प्रतिहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम् ।। ७८ ॥ रौहिणेयोऽभ्यधत्तैवं किमेवंविधचेष्टितः । स्वर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ? ॥ ७९ ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः ।। ८० ।। एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिन लघितुम् ॥ ८१ ॥ इति राजगिराऽमुञ्चद्रौहिणेयमथाभयः । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन ।। ८२ ॥ ततः सोऽचिन्तयच्चौरो धिगादेशं पितुर्मम । वंचितोऽस्मि चिरं येन भगवद्वचनामृतात् ।। ८३ ॥ नाऽऽगमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणागमिष्यं यमगोचरम् ।। ८४ ॥ अनिच्छयापि हि तदा गृहीतं भगवद्वचः । मम जीवातवे जातं भैषज्यमिव रोगिणः ।। ८५ ।। त्यक्त्वाऽर्हद्वचनं हा धिक् चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता ।। ८६ ।। उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामस्त्यात सेवितः किं करिष्यति ? ।। ८७ ।।
रौहिणेयचरित्रम् ।
॥३०७॥