________________
त्रिषष्टि
शलाकापुरुषचरिते ॥३०६॥
दशमं पर्व | एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः । संगीतकार्थं तावत्तैः प्रदत्तः समहस्तकः ॥६१ ।। उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः ! किमारब्धमेतदेवमभाष्यत ।। ६२ ।। ततः प्रतिबभाषे तैः प्रतीहार ! निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् ।। ६३ ।। सोऽप्ययुवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारः किं त्वसौ कार्यतामिति ।। ६४ ।। तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ? ।। ६५ ।। य इहोत्पद्यते देवः स स्वे सुकृतदुष्कृते । आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ।। ६६ ।। विस्मृतं स्वामिलाभेन सर्वमेतत्प्रसीद नः । देवलोकस्थितिर्देव ! कार्यतामिति तेऽवदन् ।। ६७ ।। स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वर्गभोगान् भुंक्ष्व ततः परम् ।। ६८ ।। ततः सोऽचिन्तयद्दस्युः किमेतत्सत्यमीदृशम् । मां ज्ञातुमभयेनैष प्रपंचो रचितोऽथवा ।। ६९ ।। ज्ञेयं कथमिदमिति ध्यायता तेन संस्मृतम् । कंटकोद्धरणकालाकर्णितं भगवद्वचः ।। ७० ।। देवस्वरुपं श्रीवीरीत् श्रुतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ॥७१ ।। इति बुद्ध्या स तानीक्षांचक्रे क्षितितलस्पृशः । प्रस्वेदमलिनान्म्लानमाल्यान्निमिषदीक्षणान् ।। ७२ ॥ तत्सर्वं कपटं ज्ञात्वाऽचिन्तयद्दस्युरुत्तरम् । तेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः ।।७३ ॥ १°रः ।२ 'जः ।३ राख्यातं ।
रौहिणेयचरित्रम् ।
||३०६॥