________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०५॥
दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
ततो निरपराधोऽपि बद्ध्वा चौर इवाधुना । अहमेभिरिहाऽऽनीतो नीतिसार! विचारय ।। ४८ ॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ।। ४९ ।। सोऽग्रेऽपि ग्राहितो ग्रामः संकेतं तेन दस्युना । चौराणामपि केषांचिच्चित्रमायतिचिन्तनम् ॥ ५० ॥ तत्स्वरुपं राजपुंसा पृष्टो ग्रामोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥५१ ॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकसूरिदम् । दंभस्य सुकृतस्याहो ब्रह्माप्यन्तं न गच्छति ।। ५२ ।। अभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घ्यरत्नखचितं विमानमिव नाकिनाम् ।। ५३ ।। श्रियाऽप्सरायमाणाभी रमणीभिरलंकृतः । दिवोऽमरावतीखंडमिव भ्रष्टमतर्कि सः ।। ५४ ।। गन्धर्ववर्गप्रारब्धसंगीतकमहोत्सवः । सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ।। ५५ ।। ततोऽभयो मद्यपानमूढं चौरं विधाय तम् । परिधाप्य देवदूष्ये अधितल्पमशाययत् ।। ५६ ।। मदे परिणते यावदुदस्थात्तावदेक्षत । सोऽकस्माद्विस्मयकरीमपूर्वां दिव्यसंपदम् ।। ५७ ॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जगन्नन्देत्यादिकमंगलम् ॥ ५८ ।। अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किंकरा वयम् ।। ५९ ॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे स तैस्ततः ॥६०॥ १ जयनंदे ।
BASAHARAHASRAHASABHARASHRSS
रौहिणेयचरित्रम् ।
॥३०५॥