________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०४॥
| दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् ।
चतुरंगचमूं सज्जीकृत्य मुञ्च बहिः पुरात् । यदान्तः प्रविशेच्चौरः पत्तनं वेष्टयेस्तदा ।।३५ ।। अन्तश्च त्रासितो विधुदुत्क्षिप्तकरणेन सः । पतिष्यति बहिः सैन्ये वागुरायां कुरंगवत् ।। ३६ ।। प्रतिभूमिरिवाऽऽनीतो निजपादैस्ततश्च सः । ग्रहीतव्यो महादस्युरप्रमत्तैः पदातिभिः ।। ३७ ॥ तथेत्यादेशमादाय निर्ययौ दण्डपाशिकः । तथैव च चमू सज्जां प्रच्छन्नं निर्ममे सुधीः ।।३८ ॥ तद्दिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरी रुद्धां वारी गज इवाविशत् ।।३९ ।। तैरुपायैस्ततो धृत्वा बद्ध्वा च स मलिम्लुचः । आनीय नृपतेर्दण्डपाशिकेन समर्पितः ॥ ४० ॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ।। ४१ ।। अलोप्त्रः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ।। ४२ ॥ अथ पप्रच्छ तं राजा क्वत्यः कीदृशजीविकः । कुतो हेतोरिहाऽऽयातो रौहिणेयः स चासि किम् ? || ४३ ॥ स्वनामशंकितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥ ४४ ।। प्रयोजनवशेनेहायतः सञ्जातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः ।। ४५ ।। स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलंघयमहं वप्रं प्राणभीर्महती हि भीः ।। ४६ ॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ।। ४७ ॥ १'त्यदि CLI
रौहिणेयचरित्रम् ।
||३०४॥