________________
दशमं पर्व
एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३०३॥
सर्गः श्रीमहावीरजिन| चरितम् ।
औत्सुक्यगमनाद्गाढमग्नं पादे स कंटकम् । अनुद्धृत्य समुद्धर्तुं न शशाक क्रमाक्रमम् ।।२२ ।। नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन् कंटकमश्रौषीदिति विश्वगुरोर्गिरम् ॥ २३ ॥ महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमाल्या निःस्वेदनीरजोऽङ्गाः सुरा इति ।। २४ ॥ बहुश्रुतमिदं धिग्धिगित्याशूदुधृतकंटकः । पिधाय पाणिना कर्णं तथैवापससार सः ।। २५ ।। अथान्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥ २६ ॥ त्वयि शासति देवान्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टैश्चेटकैरिव ॥ २७ ।। बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ।। २८ ।। किं चौरीभूय दायादीभूय वा मम वेतनम् । गृह्णासि ? चौरैर्गृह्यन्ते यदेते त्वदुपेक्षितैः ।। २९ ।। सोऽप्यूचे देव ! कोऽप्येष चौरः पौरान् विलुण्टति । रौहिणेयायो धर्तुं दृष्टोऽपि न हि शक्यते ॥ ३० ॥ विधुदुत्क्षिप्तकरणेनोत्प्लुत्य स प्लवंगवत् । गेहाद्गेहं ततो वप्रमुल्लंघयति हेलया ॥ ३१ ॥ मार्गेण यामस्तन्मार्ग यावत्तावत्स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ।। ३२ ।। न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥ ३३ ॥ नृपेणोल्लासितैकभूसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दण्डपाशिकम् ।। ३४ ॥ १ भग्नं । २ 'त्य कंटकम् । ३ अमात्योऽम ।
रौहिणेयचरित्रम् ।
॥३०३।।