________________
दशमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
एकादशः सर्गः श्रीमहावीर| जिन| चरितम् ।
॥३०२॥
प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥९॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विघत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ।। १० ।। अन्यत्तु स्वेच्छया वत्स ! कुर्यास्त्वमनियंत्रितः । उपदिश्येति पंचत्वं प्राप लोहखुरस्ततः ।। ११ ॥ मृतकार्य पितुः कृत्वा रौहिणेयो निरन्तरम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ।। १२ ।। पालयन् पितुरादेशं जीवितव्यमिवाऽऽत्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् ।। १३ ॥ तदा च नगरपामाकरेषु विहरन् क्रमात् । उग्रव्रतमहासाधुसहस्रपरिवारितः ।। १४ ।। सुरैः सञ्चार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन पदानि तत्राऽऽगाद्वीरश्चरमतीर्थकृत् ।।१५।।।।युग्मम्।। वैमानिकैऍतिषिकैरसुरैर्व्यन्तरैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ।। १६ ।। आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ।। १७ ।। तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ।। १८ ।। एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाऽऽज्ञा भज्यते पितुः ।। १९ ।। न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णी पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ।।२०।। तस्यैवमन्वहमपि यातायातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कंटकः ।। २१ ।। १-२ खरस्त ।३ "उग्रतपः म । चतुर्दश । ४ तत् । ५ पुनः ।
रौहिणेयचरित्रम् ।
||३०२।।